सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम् ]
११५
परिनिष्ठाकाण्ड: ।

३१२ । त्यदादीनामः । (७-२-१०२)

त्यदादीनामकारोऽन्तादेश: स्याद्विभक्तौ । सर्वादेरन्तर्गणस्त्य- दादिः । तत्र त्यच्छब्दस्तच्छन्द पर्याय श्छन्दस्येव दृश्यते । अनेन दकार-

स्य अकारादेशे कृते त + अ इति स्थिते संधिकार्यविशेषः

३१३ । अतो गुणे (पररूपमपदान्तात् ) । (६-१-९७)

अपदान्तादकार।त् गुणवर्णे (अ, ए, ओ) परे पररूपमेकादेश: स्यात् । इति पररूपेण- त + अ = त । एवं– यद् = य; एतद् = एत; इदम् = इद; अदस् = अद; द्वि = द्व । अदन्तत्वात् यः, यौ, य इत्यादि सर्वशब्दवत् । द्विशब्दस्य द्वित्ववाचकत्वाद् द्विवचनमेव– द्वौ द्वौ द्वाभ्या द्वयोः । अन्येषां प्रक्रियाविशेषा अनुपदमेव वक्ष्यन्ते । अपदान्तसंधिषु मुख्यो- ऽयं पररूपसंधिर्बहुत्रोपयोक्ष्यते इति ध्येयम् ।।

३१४ । किमः कः । (७-२-१०३)

किंशब्दस्य विभक्तौ क इत्यादेशः । अदन्तत्वात् सर्ववद्रूपाणि --

क-कौ–के । कम्-कौ - कान् । केन-काभ्यां - कैः इत्यादि ।

३१५ । तदोस्सस्सावनन्त्ययोः । (७-२-१०६)

त्यदादीनामनन्त्ययोस्तकारदकारयोः सकारादेशः स्यात् सौ परे । तदेतददसामेव सकारादेशस्यावकाशः । यथा- तद्—तद् + स्— अत्वं, पररूपं, त + स्— सादेशः, सः - तौ- ते इत्यादि सर्ववत् । एतद्– एतद् + सू— अत्वं, पररूपं, एत + स् – सादेशः, एसः, वक्ष्यमाणं षत्वम्, एषः- एतौ - एते इत्यादि सर्ववत् । स्त्रियाम् अत्वानन्तरम् 'अजाद्यत...' इति टापि या, का, सा, एषा इत्यादि सर्वावत् । क्लीबे ‘स्वमोर्नपुंसकात्’ (२१९) इति लुक् । यत्, ये, यानि;किं,के,कानि; तत्, ते, तानि; एतत्, एते, एतानि; पुनस्तद्वत्,शेषं पुंवत्।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३४&oldid=407805" इत्यस्माद् प्रतिप्राप्तम्