पृष्ठम्:Lévi - Mahayana-Sutralamkara, tome 1.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० |- IX. एष वृत्त्यर्थमारभ्य चतुर्थः श्लोकः । स्वाभाविकसांभोगिकनेमाणिककाय- वृत्त्या ) भिनवृत्तिकः । बुद्धकायविभागे सप्त श्लोकाः । स्वाभाविको ऽथ सांभोग्यः । कायो नैर्मणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः ॥ ६० ॥ त्रिविधः कायो बद्धानां। स्वाभाविको धमकाय आश्रयपरावृत्तिलक्षणः । सांभोगिको येन पर्षन्मण्डलेषु धर्मसंभोगं करोति । नैमीणिको येन निर्माणेन सत्वाथे करोति । सर्वधातुषु सांभोग्यो भिन्नो गणपरिग्रहैः क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः ॥ ६१ ॥ तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनामशरीरधर्मसंभोग क्रियाभिर्भिन्नः । समः सुक्ष्मश्च तच्छिष्टः कायः स्वाभाविको मतः । संभोगविभुताहेतुर्यथेष्टं भोगदर्शने ॥ ६२ ॥ स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया । सूक्ष्मो दुर्शनतया । तेन सांभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर्यथेष्टं भोगदर्शनाय । अमेयं बद्धनिर्माणं कायो नैर्मणिको मतः । द्वयोर्बयार्थसंपत्तिः सर्वकारा प्रतिष्ठिता ॥ ६३ ॥ क = नमणिकस्त कायो बुद्धानामप्रमेयप्रभेदं बुद्धनिमीणं सांभोगिकः स्वाथ- संपत्तिलक्षणः । नमाणिकः परार्थसंपत्तिलक्षणः । एवं द्वयार्थसंपत्तिर्यथाक्रमं द्वयोः प्रतिष्ठिता सांभोगिके च काये नैर्मणिके च । e शिल्पजन्ममहाबोधिसदानिर्वाणदशनः । बुद्धनिर्माणकायो ऽयं महामायो विमोचने ॥ ६४ स पुनर्निर्माणकायः सदा विनेयार्थं शिल्पस्य वोणावादनादिभिः । जन्म | Sing, xmlogic, mots nounneau .