पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/44

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीयः सर्गः।

४३


त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ १३ ॥
त्वं पितृणामपि पिता, देवानामपि देवता ।
परतोऽपि परश्चासि, विधाता वेधसामपि ॥ १४ ॥
त्वमेव हव्यं होता च, भोज्यं भोक्ता च शाश्वतः ।


     सांख्यमतेन स्तुवन्ति-
     त्वामिति ॥ हे भगवन्, त्वां पुरुषस्यार्थो भोगापवर्गरुपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । "प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणम्" । इति यादवः । आमनन्ति कथयन्ति । "म्ना अभ्यासे" इति धातोर्लट् । "पाघ्राध्मास्थाम्ना-" इत्यादिना मनादेशः । प्रकृतिपुरुषभेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पस्यतीति तद्दर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति ॥ "विदो लटो वा" इति झेर्जुसादेशः ॥ "अजामेकां लोहितशुक्लकृष्णाम्" इति श्रुतिरत्र प्रमाणम् ॥ १३ ॥
     त्वमिति ॥ हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः । परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः । "इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः" इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि ॥ १४ ॥
     त्वमेवेति ॥ शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि "कालाट्ठञ्" इति ठञपवादः । अत एव सूत्रकारस्यापि प्रयोगः- "येषां च विरोधः शाश्वतिकः" इति । तथापि प्रयोगवशात्साधुरिति वामन इति । शाश्वतः प्रयुक्तः शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति