पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/4

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्

प्रथमः सर्गः।

प्रथम: सर्ग:।

भास्वन्ति रत्नानि महैषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ।। २ ।।
अनन्तरत्नप्रभवस्य यस्य
हिमं न सौभाग्यविलोपि जातम्।


च भास्वत्त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । ''नपुंसकमनपुंसकेन--'' इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । ''रत्नं श्रेष्ठे मणावपि'' इति विश्वः।। ''जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते '' इति यादवः।। महौषधीश्च सञ्जीवनीप्रभृतीश्च। क्षीरत्वेन परिणता इति शेषः । ''ताः क्षीरपरिणामिनीः' इति विष्णुपुराणात् ।। दुदुहुः ।। ''दुहियाचि--'' इत्यादिना द्विकर्मकत्वम् ।। अत्र प्रयोजकत्वेऽपि शैलानां ''पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः'' इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्-- ''गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च । वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः'' इति ।। एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः ।। अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्त्वात्तेषां दोहनक्रियारुपसमानधर्मसम्बन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालङ्कारः । तदुक्तम् -- ''प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ।। न चात्र रुपकपरिणामाद्यलङ्कारा कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु त्सत्वदोग्धृत्वादीनामागमसिध्दत्वेनानारोप्यमाणत्वादिति ।। २ ।।

ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छिवत्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्क्याह --