पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/31

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०

कुमारसम्भवम् ।

तस्याः शलाकाञ्जननिर्मितेव
कान्तिर्भ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य (८)लीलाचतुरामनङ्गः
स्वचापसौन्दर्यमदं मुमोच ।। ४७ ।।
लज्जा तिरश्चां यदि चेतसि स्या-
दसंशयं पर्वतराजपुल्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्यु-
र्बालप्रियत्वं शिथिलं चमर्यः ।। ४८ ।।


     तस्या इति । आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनो शलाकयाञ्जनेन निर्मितैव स्थिता या कान्तिर्लीलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः ।। ४७ ।।
     लज्जेति । तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि । संशयाभावोऽसंशयम् । सन्देहो नास्तीत्यर्थः । पर्वतराजपुत्र्याः । "शार्ङ्गरवाद्यञो ङीन्" इति ङीन् । तं प्रसिद्धं केशपाशं केशकलापम् । "पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे" इत्यमरः । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषाः बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् । प्रियबालत्वमित्यर्थः । आहिताग्न्यादिपाठाव्दा परनिपातः । "त्वतलोर्गुणवचनस्य" इति पुंवद्भावः । शिथिलं कुर्युः । निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहेतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलङ्कारः । तदुक्तम्-- "हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्" इति ।। ४८ ।।


(८) लॊलाम्।