पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/2

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


कुमारसम्भवम्।


---<०>---

प्रथमः सर्गः।

अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः।



मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसङ्कुचद्वामदृष्टये ।।
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तन्नरं वपुषि, कुञ्जरं मुखे, मन्महे किमपि तुन्दिलं महः ।।
शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ।।
इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ।।
भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
एषा सञ्जीविनी व्याख्या तामद्योज्जीवयिष्यति ।।

तत्रभवान्कालिदासः कुमारसम्भवं काव्यं चिकीर्षुः ''आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्'' इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति --
अस्तीति ।। उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतन-व्यवहारयोग्यत्वसिध्दिः। हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति प्रसिध्दः। अधिको राजाधिराजः ।। ''राजाहःसखिभ्यष्टच्'' ।। न गच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः । पुर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ