पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/10

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः ९

उद्वेजयत्यङ्गुलिपार्ष्णिभागान्
मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता
भिन्दन्ति मन्दां गतिमश्वमुख्यः ।। ११ ।।
दिवाकराद्रक्षति यो गुहासु
लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने
ममत्वमुच्चैःशिरसां (९)सतीव ।। १२ ।।


इत्यर्थः । सुरते सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः । तदुक्तम्- "आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः" इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्य्योत्पत्तिर्लक्षणा विभावना चेत्युभयोः संसृष्टिः ।। १० ।।
     उद्वेजयतीति ।। यत्र हिमाद्रौ । शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान् प्रदेशानुद्वेजयत्यतिशैत्यत् क्लेशयत्यपि मार्गे । श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धंरेण श्रोणिपयोधरेणार्ताः पीडिताः । आङ्पूर्वादृच्छतेः क्तः । "उपसर्गादृति धातौ" इति वृद्धि: । अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किन्नरस्त्रियः । उष्ट्रमुखवत्समासः । "स्यात् किन्नर: किंपुरुषस्तुरङ्गवदनो मयुः" इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति । न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ।। ११ ।।
     दिवाकरादिति ।। यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव । उलूकमिवेति च ध्वनिः । गुहासु लीनमन्धकारं


(९)अतीव ।