पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
तृतीयः सर्गः ।

निष्कम्पठेवं निभृतद्विरेफं
मूकाण्डजं शान्तटगप्रचारम्।
तच्छासनकाननमेव सर्वं
चित्रार्पितारम्भमिवावतस्थे ॥ ४२ ॥
दृष्टिप्रपातं परिहृत्य तस्य
कामः पुरःशुक्रमिव प्रयाणे ।
प्रान्तेषु संसक्तानसेरुशाखं
ध्यानास्पदं भूतपतेर्विवेश ॥ ४३ ॥

 निष्कम्येति । निष्कम्यद्दक्षम । इदमुङ्गिच्लोपलक्षणम् । निभृतद्विरेफं निश्चलशृङ्गम् । स्वेदज्ञोपलक्षणमतत् । मूका छजं नि:शब्दपक्षिसरीसृपादिकम् । एतेनाण्डजजतिरुक्ता । शप्तमृगप्रचारम् । जरायुजोपलक्षणमेतत् । सर्वमेव काननं तस्मान्नन्दीश्वराश्या चित्रार्पितारम्भ चित्रलिखितार अमिवावतस्य ॥ "मृगवाद्य जरायुजाः । स्वेदजाः कमिदंशाः पक्षिसर्गादयोऽण्डजाः। उद्भिदस्तरुगुनद्य:” त्यमरः ॥ ४२ ॥

 दृष्टिप्रपातमिति । कामः प्रयाणे यात्रायां पुरोगतः शुक्र यस्मिन् देशे तं पुरश्चनं देशमिव ॥ *प्रतिशुक्रे प्रतिबुधं प्रत्य इनरकमेव च । अपि शक्रसमो राजा हतसैन्य निवर्तते” इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परित्य प्रान्तो धु प्रदेशेषु संसक्ता अन्योन्यसंस्रष्टा नमेरुणां सुरपुंनागानां शखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूपते: शिवस्य ध्यानास्पदं समाधिस्थानम् । "आस्वादं प्रतिष्ठायाम्” इति निपातः । विवेश ॥ ४३ ॥