सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
एकादशः सर्गः ।


अथाश्च देवौ शशिखण्डमौलिं
(१)[]कोऽयं शिशर्दिव्यवपुः पुरस्तात् ।
कस्याथवा धन्यतमस्य पुंसः
(२)[]मातास्य का भाग्यवतीषु धुषु ॥ ६ ॥
स्वर्गापगासावनलोऽयमेताः
घट कृत्तिकाः किं कलहायमानाः ।
पुत्रो ममायं न तवायमित्य'
मिथ्येतिवैलक्ष्य(३)[]मुदाहरन्ति ॥ ७ ॥

 अथेति । अथ अवलोकनानन्तरं देवी पार्वतौ। पुरस्तात् भ्रग्रतः दृश्यमान इत्यर्थः। कः अयं दिव्यवपुः दिव्यदेहः शिशुः बालकः पुत्र इति यावत् । वर्तेत इति शेषः । अथवा कस्य धन्यतमस्य अत्यन्तभाग्यवतः पुंसः पुरुषस्य अयमिघ्नेनान्वयः। दृश्यते इति । शेषः । अस्य शिशोर्माता जननी का या नारो । अयं भादृष्टम् अस्ति यासां तासु भाग्यवतीषु मध्ये निर्धार [समी। धुर्या अग्रगण्या भवतौति शेषः। एवंभूतं प्रश्नपूर्वकं वः शशिखण्डमौलिम् इन्दुशेखरं शिवम् । आह उवाच । । भक्तिप्रतिरूपकमध्ययमेतत् ॥ ६ ॥

 खर्गापगेति । असौ स्वर्गापग सुरनदी । अयम् अनलः ग:। एत: षट् कृत्तिकाः कलहायमानः कलहं कुर्वत्यः वः । अयं पुरोवत्तीति भावः । पुनः तनयः मम मत्सम्बन्धी। तिरेषा । अयं दृश्यमान इति भावः । न तव तत्सम्बन्धी सु ममेति शेषः । अनलवाक्यमेतत् । इत्यं मिष्या उभयोग्योर्मध्ये कस्यापि न किम्वस्माकमिति सत्वमिति भावः । तिकावचनमिदम् । इति परस्खरं अन्योन्यं वैलस्यं विलक्षणे या स्यात् तथा किं कथम् उदाहरति वदन्ति ॥ ७॥


  1. कोऽसौ
  2. माता च ।
  3. उदाहरन्ते ।