पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


नवमः सर्गः । पराभिभूता वद किं क्षमन्ते कालातिपातं शरणार्थिनोऽमीौ ॥ १० ॥ प्रभो (३)प्रसौदाश (७)सुजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः। (८)खलॅकलक्ष्मीप्रभुता(३)मवाय जगत्रयं पाति तव प्रसादात् ॥ ११ ॥ न: अस्माकम् अपराधं छलेन त्वहि शरप्रदेशगमनरूपं क्षमस्व सहस्त्र । अकाले इन्द्रप्रेरितस्य तवापराधः कथं सोढष्य इत्याशङ्कयाह-परति ॥ परैः अरिभिः अभिभूताः प्रपौडिताः अतएव शरणार्थिनः त्राणार्थिनः। रक्षितारं याचमाना त्यर्थः। अम इन्द्रादयः कालस्य समयस्य सबन्धिन: अति पातं विलम्बः किं कथं क्षमम्त सन्त। वद कथय। न क्षमन्ते इत्यर्थः । पीड़ितैः कालातिपातो न सज्जते इति आवः ॥ १९ ॥ प्रभो इति । हे प्रभो निग्रझनुप्रहसमर्थे। आशु सत्वरं प्रखद प्रसन्नो भव । आत्मनः स्वस्य पुत्रं तमयं सृज उत्पादय। यं भवत्पुत्रं सेनान्य' सैनिकं प्राप्य लब्धु आश्रित्येत्यर्थः। पझौ सुरे’ देवराजः तव प्रसादात् ठपाया हेतोः। स्खलकस्य दुर्गस्य या लक्ष्मीः श्रीः तस्याः। परताया इति भावः । प्रभुता आधिपत्य ' तां अधिकारित्वमित्यर्थः। अवाप्य प्राप्य शत्रुजयेनेति भावः। जगत्रयं त्रिभुवनं पाति पाशयिष्यति । वर्तमानसामौप्ये लट्॥ ११ ॥ () प्रसौदाथ । (७) यज्ञाश्च पुत्रम्, खज ख पुत्रम् । (८) जरैकल औ। (e) उपत्य ।