एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
अष्टमः सर्गः ।
मूर्ति तामुत्ससर्ज ह। प्रातः सायं समागत्य सभ्यारूपेण पूज्यते । एतां सन्ध्यां यतात्मानो ये तु दौषीसुपासते। दीर्घयुषो भविष्यन्ति नीरुजः पाण्डुनन्दन” इति ॥ ५२ ॥
इत्यं देव्याः कोपमपनौय धातुसन्ध्यादिवनं करोति---
तामिति । सम्प्रति तिमिरवृत्तिपौड़ित तमोद्वयपरुद्यम् अतएव भूमौ लग्नमिव स्थितां ताम् इमां सन्ध्याम् एकत: एकत्र तटतमालमालिनों तीरतमालतरुपतिमतम्। पश्वादित्वादिनिः । धातुरसनिम्नगां धातुद्वनदीमिव पश्य ॥ ५३ ॥
साध्यमिति । अपरा दिक् प्रतीची । अस्तमिति मकारान्तमव्ययम् । तस्येतशब्देन समासः अस्तमितशेषम् अस्तङ्गतावशिष्टम् अतएव र रेखाकृतिर्यस्य तं सन्ध्याय भवं साध्यम् आतपं संपरायवसुधा सृष्टभूमिः । `‘समरे संपरायः स्यात्” इति विश्वः । तियेंगुथितं तिर्यक् फलितं सशोणितं मण्डलाग्रं पाशमिव बिभर्ति । “कौक्षेयको मण्डलाग्रः करवालः कपायवत्' इत्यमरः ॥ ५४ ॥