पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सप्तमः सर्गः । २०३ काप थभिख्यां स्फुरितैरपुष्य- दासन्नलावण्यफलोऽधरोष्ठः ॥ १८ ॥ पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणे कृताशी मल्येन तां निर्वचनं जघान ॥ १६ ॥ खया मध्यगतया विभतः सुश्लिष्टः किञ्चिदीषन्मधूच्छिष्ट न सेथकेन विमृष्टो विशेषेण निर्मलीकृतो रागो° यस्य स Iथोक्तः । ‘मधूच्छिष्ट तु सिक्थकम्” इति “निर्णिक्तं शोधितं पृष्टम्” इति चामरः । अन्यत्रोक्तम्--*'अलौहित्यापगमाया- भरेषु सिक्थकलेपः क्रियते” ॥ आसनं ' सन्निहितं लावण्यफलं iौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः फुरितैर्भाविशभशंसिभिः स्पन्दः कामप्यनिर्वाच्यामभिख्यां शोभामपुष्यत् पुपोष । `अभिख्या नामशोभयोःइत्यमरः १८ ॥ पत्य रिति । सख्या । कत्र । चरणौ रञ्जयित्व लाक्षा सातौ कृत्वा । इतीरिति करोतिन समानकर्ह त्वम् । अनेन चरणेन । रञ्जने द्वयोरपि नियमाचरणावित्युप्य चत्यात्ताडनविधावेकतरपरामर्श इत्याहुः । पत्युशैखरस्य शेरश्चन्द्रकलाम् । सुरतविशेष इति शेषः । स्पृश ताडयेति परिहासपूर्वं कृताशीः प्रयुक्ताशीर्वादा सा पार्वती तां खीं माल्येन मालया । “मायमालास्रजौ' इत्यमरः । नवचनं यथा तथा । तूफीमित्यर्थः । जघान ताडयामास । नेर्वचनमित्यनेन विकताख्यः शृङ्गारानुभाव उक्तः । सदुक्तम् 'प्राप्तकालं तु यद् ब्रूयात् कुर्याद् विधूतं हि त’ इति १८ ॥