पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६५
प्रथमः सर्गः ।

तया व्यातसन्देशा सा बभौ निभृता प्रिये।
चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखौ ॥ २ ॥
स तथेति प्रतिज्ञाय विवृज्य कथमयुमाम्।
छपीं ज्योतिर्मयान् सप्त सस्मार स्मरशासनः ॥३॥
ते प्रभामण्डलैर्योम द्योतयन्तस्तपोधनाः ।
सारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः ॥४॥

 तयेति । तया सख्या । सखीमुखेनेत्यर्थः । व्यातसदेशा उतवाचिका प्रिये हरविषये निभृता निश्चला। परमास त्यर्थः। सा गौरी। मधौ वसन्त निभृता स्थिरा परभूतया कोकिलया उम्मुख मुखरा परभृतोन्मुखौ। मुखशब्द न अभिभाषणव्यापारो लक्ष्यते । तथा च परभृतामुखेम व्यारन्तीत्यर्थः । परभृतेति क्रियाशब्दविवक्षायाम् “जातेरस्त्री----" इति अप्प्रत्ययो न भवति । तयेत्युपमेयस्ख व्यस्तत्वदुपमानवाचिपरभृताशब्दस्य समासः सोढव्यः। अथवा शरणं सम्यदादित्वात् किप। परैः भृत् यस्यास्तया परभृतेति व्यासेग थाख्ये यम् । पदमञ्चकारस्तु परैः भियत इति कर्मणि क्षिपमाड । चूतयष्टिधूतशखेवाभ्यासेऽन्तिके बभौ । ‘सदेशभ्याससविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अत्यभितोऽव्यथम्” इत्यमरः ॥ २ ॥

 स इति । स प्रकृतः । शस्तीति शासनः । बहुलग्रहण कर्तरि ल्युट् । स्मरस्य शासन ईश्वरस्तथेति प्रतिज्ञाय । तथा करिष्यामीत्य इत्यर्थः। उमां कथमपि कृच्द् या विसृज्य । तव गाढानुरागत्वादिति भावः । व्योतिर्मयान् तेजोहपाशं सप्तर्षीनङ्गिरःप्रभृतीन् सस्मार स्मृप्तवान् ॥३॥

 त इति । ते तप एव धनं येषां ते तपोधनाः सप्तर्षयः प्रभामण्डलैस्तेज:पुतैः व्योमाकाशं द्योतयन्तः प्रकाशयन्तः । अरुन्धत्या सुइ वर्तन्त इति वारुन्धतीकाः सुन्नः । "गदृप्तश्च”