स्वरूपमास्थाय च तां कृतमित: |
इत इति । अथवेतोऽन्यत्र गमिष्यामीति वादिनी वदन्ति स्खनाभ्यां भिनव कला रयवशात् कुचस्रस्तचीरा बाला पार्वतौ घचाल । वृषराजकेतनो वृषभध्वजञ्च स्वरुपमास्थाय निजरूपमाश्रित्य कुतन्मितः सन्।, तां पार्वतीं समाललम्ब जगह । ॥ ८४ ॥
तमिति । तं देवं वौच्य वेपथुमती कम्यवती सरसाङ्ग्यष्टिः खिनगात्री। महादेवदर्शनेन देव्याः सात्विकभावोदय उक्तः। निक्षेपणायान्यत्र विन्यसायोद्युतचुंक्षिप्त पदमदिसुइहती शैलाधिराजतनया पार्वती मार्गेऽचलस्तस्य व्यतिकरेण समाहत्था। अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुर्नदौव ॥ *देशे नदविशेषेऽब्धौ सिन्धुर्गा सरिति स्त्रियाम्' इत्यमरः । न ययौ न तस्यों । लमयेति भावः । वसन्ततिलकावत्प्तमेतत् ॥ ८५ ॥
अवेति । चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति। अद्य प्रश्वति। अस्याद्दिनादारध्ये त्यर्थः । प्रतयोगादयेति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते । तव तपोभिः तिः ॥