सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
पञ्चमः सर्गः ।


य उत्पलानि प्रचलैर्विलोचनै
स्तवाक्षि(७)[]सादृश्यमिव प्रयुञ्जते ॥ ३५ ॥
यदुच्यते पार्वति पापकृत्तये
न रूपमित्यव्यभिचारि तद्वचः ।
तथाहि ते शौलमुदारदर्शने
तपस्विनामबपदेशतां गतम् ॥ ३६ ॥
विकीर्णसप्तर्षिबलि(८)[]प्रहासिभि
स्तथा न गाङ्गः सलिलैर्दिवधृतैः

एवाभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वनयनैः साम्यमुपयान्तीति भावः । “उत्पलक्षेपचलेः” इति पठान्तर उत्पलकम्यचलैः। भावानयने द्रव्यानयनमिति न्यायेन क्षिप्यमाणत्पलचलरित्यथः ॥ ३५ ॥

 यदिति । हे पार्वति । रूपं सौम्याकृतिः पापघत्तये पापाचरणाय न भवतीति यदुच्यते । लोकैरिति शेषः । तद्वचो न व्यभिचरति न स्खलतौत्यव्यभिचारि सत्यम् । ‘यत्राकृतिस्तत्र गुणा ‘न सुरूपाः पापसमाचरा भवति" इत्यदयो लोकवदा न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते--- तथाहि। हे उदारदर्शने आयताक्षि । सुरूप इत्थथुः। अथ वोन्नतज्ञाने। विवेकवतीत्यर्थः । ते तव शीलं सट्टत्तम् ॥ “शोलं स्वभावे सदृष्टत्ते’ इत्यमरः । तपस्विनामप्यपदिश्यतेनेनेत्यपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम्। सुनयो ऽपि त्वां वीक्ष्य स्वदृत्ते प्रवर्तन्त इति भावः ॥ ३६ ॥

 विकीर्णेति । एष महौधरो हिमवान्। सप्त च त ऋधयत्र सप्तर्षयः । ‘दिक्संख्यं संज्ञायाम्” इति समासः ।


  1. सपलम् ।
  2. प्रभ्राहिभिः ।