पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
चतुर्यः सर्ग: ॥

इति चाह स धर्मयाचितः
(१)बरशापावधिदां सरखतौम् ।
अशनेरमृतस्य चोभयो-
वशिनश्चाम्बुधराश्च योनयः ॥ ४३ ॥
तदिदं परिरक्ष शोभने
भवितव्यप्रियसङ्गमं वपुः ।
रविपीतजला तपात्यये
पुनरोघेन हि (२युज्यते नदी ॥ ४४ ॥

याचितप्रार्थितः स भगवान् ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृत: अभिमुखीकृतो हरः शिवो यदा पार्वतीं परिणेष्यत्यद्वक्ष्यति तदोपलब्धसुखः प्राप्तानन्दः सन् । स्मरं कामं स्खन वपुषा नियोजयिष्यति सङ्गमयिष्यति । इत्यवं स्मरशापस्यावधिदाम् अवसानदायिनीं सरस्वतीं वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीटशी शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधरायशनेरमृतस्य चेत्युभयोर्योनयः प्रभवाः । वशिपक्षेऽशन्यतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युतान्युदकपरौ॥ युग्मकम् ॥ ४२ ॥ ४३ ॥

</poem>तदिति । हे शोभने तत्तस्मात् कारणाद्भवितव्यो भविष्यन् तथाहि प्रियसङ्गमो यस्य तत्तथोक्तम् इदं वपुः परिरक्ष । रविपीतजला नदी तपात्यये प्रादृषि ॥ *प्रावृट् तपात्यये” इति इलायुधः । पुनरोघेन प्रवहेण युच्यते सङ्गच्छते हि ॥ ४४ ॥


(१) अरशापान्तभवाम् । (२) पूर्यते ।