पृष्ठम्:Kalidasa's Śakuntala.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • 4. d-]

षष्ठांशवृत्तेरपि धर्म एषः ॥ ४ ॥ ॥ इति परिक्रामति ॥ [58 ॥ ततः प्रविशति राजा विदूषको विभवतश्ध परीवारः । 3राजा । ॥ अधिकारखेदं निरूप्य । सः मार्थितमधिगम्य सुखी संपद्यते। राज्ञां तु चरितार्थतापि दुःखोत्रैव । कुतः । औौत्सुक्यमात्रमवसादयति प्रतिष्ठा क्रिश्नाति लब्धपरिपालनवृत्तिरेव । नातिश्रमापनयनाय यथा श्रमाय राज्यं खहस्तधृतदण्डमिवातपत्रम् ॥ ५ ॥ नेपथ्ये वैतालिकौ । जयति जयति देवः । एकः । खसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथ वा ते सृष्टिरेवंविधैव । अनुभवति हि मूर्धा पादपस्तीत्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥ ६ ॥ द्वितीयः । नियमयसि विमार्गमस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय । अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमातं बन्धुकृत्यं जनानाम् ॥ ७ ॥ राजा । । आकण्यै ॥ आश्चर्यम् । एतेन कार्यानुशासनपरिश्रान्ताः पुनर्न वीकृताः स्मः । 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७८&oldid=83592" इत्यस्माद् प्रतिप्राप्तम्