पृष्ठम्:Jyautisha Vedangam.pdf/54

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



३७
सुधाकरभाष्यसहितम् ।

 अत्रोपपत्तिः । अत्रैकस्य नक्षत्रस्य चतुर्विंशत्यधिकशतभागाः कृतास्तेऽंशा नक्षत्रांशा वा भांशा उच्यन्ते । एवं दिनस्यापि चतुर्विंशत्यधिकशतमिता भागास्ते दिनभागांशाः कथ्यन्ते । श्रविष्ठातो ये इष्टकालगा अंशा भागास्त एवेष्टकालांशा ज्ञेयाः । एकस्मिन् दिने वा चतुर्विंशत्यधिकशतसमेषु दिनभागेषु भचक्रैकभ्रमणेन प्राग्दिशि सर्वेषां नक्षत्राणां वा २७x१२४ भांशानामुदयोऽतोऽनुपातो यदि १२४ दिनभागेषु

 २७ × १२४ नक्षत्रभागानामुदयस्तदेष्टदिनभागेषु किं लब्धाः श्रविष्ठातो भांशा = (२७ x १२४ x इदिभां)/१२४ = २७ x इदिभां । अत उपपन्नं लग्नानयनम् । अत्र बार्हस्पत्यादीनां व्याख्यानं न साधु । कुत्रापि-अभ्यस्तपदेन योगो न गृह्यत इति । चन्द्रैकभगणकालो हि नक्षत्रमास इति याजुषैकत्रिंशश्लोकेन स्फुटम् । एकस्मिन् चन्द्रभगणकाले च तत्षड्-ऋतवोऽतो नक्षत्रमासा: षड्गुणास्तदृतवो भवन्तीति सर्वं निरवद्यम् ॥ १९ ॥

इदानीं तिथिमानमाह।
अतीतपर्वभागेभ्यः शोधयेद्द्विगुणां तिथिम् ।
तेषु मण्डलभागेषु तिथिनिष्ठां गतो रविः ॥ २० ॥
याजुषत्रयोविंशश्लोकभाष्यादिना स्फुटम् ॥ २० ॥

इदानीमिष्टतिथिसमे नक्षत्रे भकला आनयति ।

याः पर्वभादानकलास्तासु सप्तगुणां तिथिम् ।
प्रक्षिपेत् तत्समूहं तु विद्याद्भादानिकाः कलाः ॥ २१ ॥
याजुषविंशश्लोकभाष्यादिना सर्वं स्फुटम् । अत्र किञ्चित्पाठभेदो नार्थान्तरकर इति ॥ २१ ॥
इदानीं दिनमानमाह ।
यदुत्तरस्यायनतो गतं स्या-
च्छेषं तु यद्दक्षिणतोऽयनस्य ।
तदेकषष्ट्या द्विगुणं विभक्तं
सद्वादशं स्याद्दिवसप्रमाणम् ॥ २२ ॥

याजुषचतुस्त्रिंशश्लोकभाष्यादिना स्फुटं सर्वम् ॥ २२ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/54&oldid=204688" इत्यस्माद् प्रतिप्राप्तम्