पृष्ठम्:Jyautisha Vedangam.pdf/29

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
याजुषज्यौतिषं

इदानीं पर्वणि चन्द्रनक्षत्रानयनार्थं भांशानयनमाह ।
भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः ।
एकादशगुणाश्चेन्दोः शुक्लेऽर्धं चैन्दवा यदि ॥ १५ ॥

 वर्त्तमानाब्दे द्वादशकेषु मासेषु उद्गताः प्राप्ता इष्टका अभीष्टाः पक्षाः कार्याः । निरेकं द्वादशाभ्यस्तमित्यादिना पूर्वोदितेन प्रकारेणाभीष्टपर्वणि पर्वगणं आनेयस्त एवात्रेष्टकाः पक्षा भवन्ति । पक्षा एकादशगुणा इन्दोश्चन्द्रस्य भांशाः स्युः । यदि ऐन्दवाश्चान्द्राः पक्षाः शुक्ले शुक्लपक्षे तदा पूर्वगतभांशेषु अर्धं च शब्दाद्योज्यमर्थात् भांशानां चतुर्विशत्यधिकैकशतमितानामर्धं द्विषष्टिर्योज्या तदा चन्द्रस्य भांशाः स्युरित्यर्थः ।

 अत्रोपपत्तिः । एकस्मिन् युगे चान्द्रामासाः = ६२ । तत्पक्षाः = १२४ । चन्द्रभगणाः = ६७ । एते सप्तविंशतिगुणाश्चन्द्रभुक्तनक्षत्राणि = १८०९ । ततोऽनुपातो यदि १२४ पक्षैः पर्वभिर्वा १८०९ नक्षत्राणि तदैकपक्षेण किं जातान्येकपक्षे नक्षत्राणि = = =

 = १४ नक्षत्राणि + ७३ भांशाः । यत एकस्मिन् नक्षत्रे भांशाः = १२४ । इति पूर्वमेव प्रतिपादितम् । अथ ७३ भांशाः = ६२ + ११ । ततोऽनुपातो यद्येकस्मिन् पक्षे चैते भांशास्तदा पक्षगणे कियन्तः । लब्धा इष्टपक्षेषु भांशाः = ६२ इप + ११ इप अत्र यदि पक्षाः समा अर्थात् कृष्णपक्षे तदा प्रथमखण्डे पूर्णानि नक्षत्राणि लभ्यन्ते तेषां त्यागेन तदा भांशाः = ११ इप । अथ यदि पक्षा विषमा अर्थात् शुक्लपक्षे तदा प्रथमखण्डे पूर्णनक्षत्राणां त्यागात् भांशाः = ६२ । अतस्तदा वास्तवा भांशाः = ६२ + ११ इप । एवमत्राभीष्टे पक्षान्ते यत् किमपि नक्षत्रं तस्य भुक्ता भांशा आगच्छन्तीति सर्वं निरवद्यम् । अत्र बार्हस्पत्यव्याख्यानं तदुपपतिश्च निरर्थेति ॥ १५ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/29&oldid=204472" इत्यस्माद् प्रतिप्राप्तम्