पृष्ठम्:Jyautisha Vedangam.pdf/19

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सुधाकरभाष्यसहितम् ।

मणयस्तच्छिरोरूपफणासु स्थिताः सन्ति । तद्वत् तथा वेदाङ्गशास्त्राणां व्याकरण-निरुक्त-कल्प-शिक्षा-छन्दसां शिरसि गणितं ज्यौतिषं स्थितमस्ति । सर्वत्र वेदाङ्गेषु सङ्ख्याव्यवहारात् सङ्ख्याविधानप्रतिपादकं गणितशास्त्रमेव प्रधानमिति ॥ ४ ॥
 इदानीं पञ्चवर्षात्मकयुगे संवत्सरानयनमाह ।

( ये बृहस्पतिना भुक्ता मीनात् प्रभृति राशयः ।
ते हृताः पञ्चभिर्याता यः शेषः स परिग्रहः ॥ )

 बृहस्पतिना गुरुणा ये मीनात् प्रभृति मीनराशेः सकाशात् राशयो भुक्तास्ते पञ्चभिर्हृता लब्धा याता युगसंख्या ज्ञेया । यः शेषः स वर्तमाने युगे परिग्रहो ग्राह्य इति । अत्र पञ्चवर्षात्मकयुग एव सर्वा गणनाऽत इदं पद्यं क्षेपकम् । बृहस्पतिभुक्तराशीनां पञ्चाल्पत्वादिति स्फुटं ज्योतिर्विदामिति ।

 इदानीमनाद्यन्तकालेऽत्र कियत्कालपर्यन्तं गणनेत्याशङ्क्याह ।

माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः ।
युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥ ५ ॥

 अत्र दैवज्ञाः पञ्चवर्षात्मकयुगस्य मध्ये कालानां चान्द्रसौरसावननाक्षत्राणां ज्ञानं प्रचक्षते कथयन्ति । किंविशिष्टस्य । माघशुक्लप्रपन्नस्य माघशुक्लप्रतिपदि समुद्भूतस्य । पुनः किंविशिष्टस्य । पञ्चमे वर्षे पौषकृष्णसमापिनः पौषकृष्णामायां यस्य समाप्तिर्भवति तस्य । अत्र चान्द्रा मासा गृह्यन्ते येषामारम्भः शुक्लादिः समाप्तिस्तु दर्शान्ते ॥ ५ ॥

 इदानीं कस्य माघस्य शुक्लप्रतिपदि पञ्चवर्षात्मकयुगस्यारम्भ इत्याह ।

स्वराक्रमेते सेामार्कौ यदा साकं सवासवौ ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/19&oldid=204413" इत्यस्माद् प्रतिप्राप्तम्