पृष्ठम्:Harinamamrita vyakaranam.pdf/253

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीहरिनामामृतव्याकरणम् [३यः ५६४-५६७ ५६५ । उपेन्द्रारस्त्रिविक्रमः। ५६६। नामधातौ तु वा तदलश्च, न तु त्रिविक्रम भवस्य। ‘नत्य धातूपसर्गयोःइति पुनः ‘नित्यग्रहणान्निषेधःतदनुगतो वामनश्च न स्यात्प्राच्छंति, पराच्छंति। ‘अति-सत्सङ्गाद्यदन्तयो- गोविन्दः (५५५) इति अर्यते । आच्छैत्, आरत् । समस्त्वात्मपदं वक्ष्यते (११७५)-समारत । तदेतत् काशिकादावपि मतम्। ‘अन्तस्य (४२४) इति वृष्णीन्द्रःआदेशः स्थानिवत्, तत ऋरामस्य द्विर्वचनम्, नऋरामस्यारामः (४८८), ‘नरादेररामस्य त्रिविक्रमः (४७५)-- आर। ‘ऋद्वयं रः' (६१), स्थानिवत्वं द्विर्वचनं, त्रिविक्रमः आरतुः, आरुः; ‘अयतवृव्येभ्यो नित्यम्’ (५११) इति इद् थलि -आरिथ। ऽ , ऽवणे -- ५६५-५६६ ॥ ५६७ । श्रवः शपः श्नुस्तस्य शुश्च । श्रु, व' इति बाहुल्याङबादेशः। भू इत् ॥ ५७ ॥ ५६५ । उपे। उपेन्द्र-सम्बन्धिनोऽरस्त्रिविक्रमो भवति । ५६६ । नाम । नामधातौ तु उपेन्द्रार उपेन्द्रालश्च त्रिविक्रमो वा भवति, त्रिविक्रमभवस्य उपेन्द्रर उपेन्द्रालस्तु त्रिविक्रमो न भवति । नल प्राच्छतीत्यत्र ‘ऋट्टयाइयो द्वीती’त्यनेन पक्षे सन्धिनिषेधः पराच्र्छतीत्य- त्रापि पक्षे सन्धिनिषेधस्तदनुगतो वामनश्च भवतु इति चेत्तत्राह, नित्य- मिति । नित्यं धातूपसर्गयोरित्यत्र पुननित्यग्रहणाद्धे पाक्षिकसन्धिनिषेध स्तदनुगतवामनश्च न स्यादित्यर्थः । प्राच्र्छतीति, ‘ऋद्वये अरित्यनन अर। नामधातत्वित्यादेरुदाहरणं वक्ष्यते । आरदिति, ‘सर्ती' त्यादिना ङः , द्वयान्तेत्यादिना गोविन्दः । तदेतदिति, यथा भूतेशमात्रे नित्य-इ विधानमात्मपदविधानञ्चास्माभिः कृतम् । तथा काशिकादावपि। श्रम दीश्वरादयस्तु सर्तेरर्तेश्च आत्मपदे विकल्पयन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Harinamamrita_vyakaranam.pdf/253&oldid=160640" इत्यस्माद् प्रतिप्राप्तम्