पृष्ठम्:Harinamamrita vyakaranam.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३यः ४२८-४३२ ] भ्वादिपरपदप्रक्रिया १७७ ४२८ । अरामान्यवर्णादन्ते-अन्तामन्तानां नस्य हरः। ४२६। शोड रुट् च । ४३० । वेत्ते रुट् तु वा। अभाविषत, अभविषत। षात् परस्य टवर्गयुक्तस्य' (२८२) इति -अभाविष्ठाः, अभविष्ठाः; अभाविषाथाम्, अभविषाथाम् ॥४३॥ ४३१। सस्य हो । ४३२। ईश्वरहरिमित्र-हकारेभ्यः सीध्वं, भूतेशा धोक्षजानां धस्य ढः । ४२५ । इण । इण् उत्तरस्य तस्य हरो भवति ।। ४२६ । इट् । रामधातुके परे धातोरुत्तरे इड, भवतेि ।। ४२७ । सहज । स्ये, सौ. कामपाले, बालकल्कौ च परे भाव कर्मणोर्वाच्ययोः सहजसवश्वरान्तात् हन हिंसागत्योः, ग्रह उपादान, दृशिर् प्रेक्षणे इत्येतेभ्यश्चोत्तरे इण्वदिड़ वा भवति । नन दशधातोः कथमिण्व- दिट् कृतवान्, इण्वदिड़, विधानस्य वृष्णीन्द्रादिकमेव प्रयोजनं, तत्तु दृश् धातोर्न सम्भवतीति चेत्तत्राह-दृशस्त्विड़ितीति । दृशस्त्विडित्यत्रापि वेति ज्ञेयम् । दृशस्त्विड्वेति पृथगारम्भे कृते गौरवं स्यादिति । इण्वत्त्वस्य प्रयोजनाभावेपि गौरवभयेनैव न पृथगारम्भः कृत इत्यर्थः । अभविषाता- मिति, से रामधातुकत्वात् तस्मिन् परे ‘इट् राम धातुके इत्यनेन इट् ।। ४२८ । अरामान्य । अरामादन्यद्वर्णादुत्तरेषाम् अन्ते अन्तामन्तानां नस्य हरो भवति, अन्ते अन्तामन्तानामिति सौत्रत्वादसन्धिरिति ज्ञेयम् । । ४२६ । शीङो । शीडः स्वप्ने इत्यस्मादुत्तरे रुट् च भवति । नस्य हरः सिध्यत्येव, रुड्धािनार्थं सुत्रमिदम् ।। ४३० । वेत्ते । विद् ज्ञाने इत्यस्मादुत्तरे रुट् तु वा भवति । षात्परस्येत्यादिना थस्य ठः ।। ४३१ । सस्य । धे परे सस्य हरो भवति । -२३