पृष्ठम्:Harinamamrita vyakaranam.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२यः २६५२६८ ॥ विष्णुजनान्ताः पुरुषोत्तमलिङ्गाः ११९ २६५। पथिन्-मथिन्-ऋभुक्षिन्नित्येषां नस्य हरः सौ । २६६ । पथ्यादीनामिरामस्यारामः कृष्णस्थाने, थात् एवं नुक् च । ‘अविष्णुपदान्तस्य' ( वि' प्र' २३१ ) इति 'विष्णुचक्रस्य हरिवेणुः (स' प्र' ११४) इति ; अत्र नागरलिपावप्यविष्णुपदान्ते यद्विष्णुचक्र, तन्नोचितम् ; पन्थाः, पन्थानौपन्थानः ; पन्थानम्, पन्थानौ ॥ २६५-२६६॥ २६७ । पथ्यादीनां संसारहरो भगवति। पथः ; पथा। ‘एवकारेणैव सर्वत्र नियमात् नामान्तस्य नस्य हरः (वि° प्र° २६२ ), तेन पथिभ्याम्, पथिभिः । एवं मन्थाः, मन्थानौमन्थानः ; ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः ॥ २६७ ॥ अथ शfङ्गन्' -- २६८ । इन्-हन्-पूषन्-अर्यमन् इत्येषामुद्धवस्य त्रिविक्रमः सुश्योरेव । शाङ्ग, शाङ्गणौ, शाङ्गिणः ; शाङ्गणम्शाङ्गणौ, शाङ्गणः शाङ्गभ्याम् ; हे शाङ्गिन् ! एवं वनमालिन्, ‘हलिन्’, ‘दण्डिन्’ । २६५। पथिन् । सुगमम् ।। २६६ । पथ्या । अविष्ण्विति, ‘अविष्णुपदान्तस्य नस्य मस्यच विष्णु चक्रे वैष्णवे' इत्यनेन विहितस्य विष्णुचक्रस्य स्थाने ‘विष्णुचक्रस्य हरिवेणु विष्णुवर्गे’ इत्यादिना हरिवेणुरिति । अत्रेतिनागरलिपो नागरलिखने ।। २६७ । पथ्या । ननु पथिन् मथिन् इत्यादि लक्षणस्य पृथक्करणात् पथिभ्यामित्यादौ नामान्तस्येत्यादिना नलोपो न भवत्विति चेत्तत्राह एव कारेणैवेति-एवकारेणैव सर्वत्र नियमः, अतः एवकाराभावेन नियमा भावात् ; नामान्तस्येत्यादिना नस्य हरः स्यादेवेति ।। २६८ । इन्-हन् । नियमसूचनार्थमेवशब्दोपादानम् । ।