पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः. वायव्युत्तरयोर्युतिरैशानीं स्वत्रिभागयुगहीना । दशगुणिताष्टाविंशतिरवशिष्टा व्योनि कति कीराः ॥ १६ ॥ काचिद्वसन्तमासे प्रसूनफलगुच्छभार नम्रोद्याने । कुसुमासवरसरञ्जितशककोकिलमधुपमधुरनिस्वननिचिते ॥ १७ ॥ हिमकरधवले पृथुले सौधतले सान्द्ररुन्द्रमृदुतल्पे | फणिफणनितम्बबिम्बा कनदमलाभरणशोभाङ्गी ॥ १८ ॥ पाठीनजठरनयना कठिनस्तनहारनम्रतनुमध्या । सह निजपतिना युवती रात्रौ प्रीत्यानुरममाणा ।। १९ ।। प्रणयकलहे समुत्थं मुक्तामयकण्ठिका तदबलायाः । छिन्नावनौ निपतिता तत्र्यशश्चेटिकां प्रापत् ॥ २० ॥ षड्भाग: शय्यायामनन्तरानन्तरार्धमितिभागाः । षट्सङ्ख्यानास्तस्याः सर्वे सर्वत्र सम्पतिताः ॥ २१ ॥ एकाग्र षष्टिशतयुतसहस्त्र मुक्ताफलानि दृष्टानि । तन्मौक्तिकप्रमाणं प्रकीर्णकं वेत्सि, चेत् कथय ॥ २२ ॥ ' स्फुरदिन्द्रनीलवर्ण षट्पदबृन्दं प्रफुलितोद्याने । दृष्टं तस्याष्टांशोऽशोके कुटजे षडंशको लीनः ॥ २३ ॥ कुटजाशोकविशेषः षड्गुणितो विपुलपाटलीषण्डे । पाटल्यशोकशेषः स्वनवांशोनो विशालसालवने ॥ २४ ॥ पाटल्यशोकशेषो युतस्स्वसप्तांशकेन मधुकवने । पञ्चांशस्तन्दृष्टो वकुलेषूत्फुल्लमुकुलेषु ॥ २५ ॥ तिलकेषु कुरवकेषु च सरलेषाम्रेषु पद्मषण्डेषु । वनकरिकपोलमूलेषूपि सन्तस्थे स एवांशः || २६ ।। 1 M reads स्फुरितेन्द्र . 49