पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः 'एकांशऋद्धीनां गशीनां युनावंशात्याविक सत्यंशोत्पादक सूत्रम्- 36 महारांशत्यशोऽश एकवडीनाम् । शेष मिनरांशयुतिहृतमन्यांशोऽस्त्येवमा चरमात् || ७३ ॥ अत्रोद्देशकः । नबकदशैकादशहृतराशीनां नत्रतिनवशतीभक्ता । त्र्यूनाशीत्यष्टशती संयोगः केंऽशकाः कथय ॥ ७४ ॥ छेदोत्पत्तौ सूत्रम्-- रूपांशकराशीनां रूपाद्यास्त्रिगुणिता हराः क्रमशः । द्विद्वित्र्यंशाभ्यस्तावादिमचरमौ फले रूपं ॥ ७५ ।। अत्रोद्देशकः । पञ्चानां राशीनां रूपांशानां युतिर्भवेद्रूपम् । षण्णां सप्तानां वा कं. हाराः कथय गणितज्ञ ॥ ७६ ॥ विषमस्थानानां छेदोत्पत्ता सूत्रम् -- एकांशकराशीनां याद्या रूपांत्तरा भवन्ति हराः स्वासन्नपराभ्यस्तास्सर्वे दलिताः फलं रूपे ॥ ७७ ॥ एक शानामनेकांशानां चैकांशे फले छेदोत्पत्तौ सूत्रम्----- लब्धहरः प्रथमस्यच्छेदः सस्वांशकोऽयमपरस्य । प्राक स्वपरेण हतोऽन्त्यः स्वांशेनैकांशके योगे ॥ ७८ ॥ अत्रोद्देशकः । सप्तकनवकत्रितयत्रयोदशांशप्रयुक्तराशीनाम् । रूपं पादः षष्ठः संयोगा: के हराः कथय ॥ ७९ ॥ 1B सदृशवृद्धवंशराशींनां अशोत्पादकसूत्रम् |