पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. गुणधनगुणसङ्कलिंघनयोः मूत्रम्- पदमित गुणहतिगुणितप्रभवः रयाद्गुणधनं तदाधूनम् । एकोनगुणविभक्तं गुणसङ्कलितं विजानीयात् ॥ ४० ॥ गुणसङ्कलितान्त्वधनानयने तत्सङ्कलितानथुने च सूत्रम्--- गुणसङ्कलितान्त्वधनं विगतैकपदस्य गुणधनं भवति । तद्गुणगुणं मुखोनं व्यकोत्तरभाजितं सारम् ॥ ११ ॥ अत्रोद्देशकः । प्रभवोऽष्टमञ्चतुर्थः प्रचयः पञ्च पदमत्र गुणगुणितम् । गुणसङ्कलितं तस्यान्यधनं चाचक्ष्व मे शीघ्रम् ॥ ४२ ॥ 'गुणधनसङ्कलित धनयोगद्युत्तरपदान्यपि पूर्वोक्तसूत्रैशयेत् । समानेष्टोत्तरगच्छस इलिनगुणसङ्कलितमम वनस्वाद्यानयनसूत्रम्-- मुखमेकं चयगच्छाविष्टौ मुखवित्तरहिनगुणचित्या । हृनचयधनमादिंगुणं सुखं भवेदिचिनिधनसाम् ॥ ४३ ।। अत्रोद्देशकः । भाववार्धिभुवनानि पदान्य- म्भोधिपञ्चसुनयस्त्रिहतास्ते । उत्तराणि वदनानि कनि स्यु- युग्मसङ्कलितवित्तसमेषु ॥ १४ ॥ इति भिन्नडुलिनं समाप्तम् || भिन्नव्युत्कलितम् । भिन्नव्युत्कलिते करणसूत्रं यथा गच्छाधिकेष्टमिधं चयहतमृनोत्तरं द्विहादियुतम् । शेषेष्टपदार्धगुणं व्युत्कलितं स्वेष्टवित्तं च ॥ ४५ ॥ 1 Found cnly in B - 31