पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 गणितसारसङ्ग्रहः 'सप्तदशत्रिशतयुतान्यकत्रिशन्सहस्त्रजम्चूनि । भक्तानि नवत्रिशन्नरैवेदकस्य भागं त्वम् ॥ २४ ॥ त्र्यधिकदशत्रिशतयुतान्येक त्रिंशत्सहस्रजम्वृनि । सैकाशीतिशतेन, प्रहृतानि नरैवेंकांशम् ॥ २५ ॥ त्रिदशसहस्त्री सैका षष्टिद्विशतीसहस्रषटुयुता । रत्नानां नवपुंसां दत्तैकनरोऽत्र किं लभते ॥ २६ ॥ एकादिषडन्तानि क्रमेण हीनानि हाटकानि सरखे । विधुजलधिबन्धसङ्ख्यैर्नरैर्हनान्येकभागः कः ॥ २७ ॥ त्र्यशीतिमिश्राणि चतुश्शतानि चतुस्सहस्त्रन्ननगान्वितानि । रत्नानि दत्तानि जिनालयानां त्रयोदशानां कथयैकभागम् ॥ २८ ॥ इति परिकर्मविधौ द्वितीयो भागहारः समाप्तः ॥ वर्गः । तृतीये वर्गपरिकर्मणि करणसूत्रं यथा— द्विसमवधो घातो वा स्वेष्टोनयुतद्वयस्य सेष्टकृतिः । एकादिद्विचयेच्छागच्छयुतिर्वा भवेद्वर्गः ॥ २९ ॥ 1 AM reads the problem contained in this stanzan thus त्रिशतयुतैकत्रिंशत्सहस्रयुक्ता दशाधिकाः सन । भक्ताश्चत्वारिंशत्पुरुषैरेकोनैस्तत्र दीनारम् ॥ • This stanza is found only in M • M एकद्वित्रिचतुःपञ्चषहींनाः क्रमेण सम्भक्ताः । सैकचतुः शतसंयुतचत्वारिंशज्जिनालयानां किम् ||