पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संज्ञाधिकारः द्वि द्वे द्वावुभौ युगलयुग्मं च लोचनं द्वयम् । दृष्टिनेंत्राम्बकं द्वन्द्वमक्षिचक्षुर्नयं दृशौ ॥ ५४ ॥ हरनेत्रं पुरं लोकं त्रै(त्रि) रत्नं भुवनत्रयम् । गुणो वह्निः शिखी ज्वलनः पावकश्च हुताशनः ॥ ५५ ॥ अम्बुधिर्विषधिवार्धिः पयोधिस्सागरो गतिः । नलधिर्बन्ध चतुर्वेदः कषायस्सलिलाकरः ॥ १६ ॥ इषुर्बाण शरं शस्त्रं भूतमिन्द्रियसायकम् । पञ्च व्रतानि विषयः करणीयस्तन्तुसायकः ॥ १७ ॥ ऋतुजीवो रसो लेख्या द्रव्यश्च षटुकं खरन । कुमारवदनं वर्ण शिलीमुखपदानि च ।। ५८ ।। शैलमद्रिर्भयं भूम्रो नगाचल मुनिर्गिरि 1 अश्वाश्विपन्नगा द्वीपं धातुर्व्यसनमातृकम् ॥ १९ ॥ अष्टौ तनुर्गजः कर्म वसु वारणपुरम् । द्विरदं दन्ती दिग्दुरितं नागानीकं करी यथा ॥ ६० ॥ नव नन्दं च रन्ध्रव पदार्थ लब्धकेशवी निधिरत्नं ग्रहाणां च दुर्गनाम च सङ्ख्यया || ६१ ॥ आकाशं गगनं शून्यमम्बरं वं नभो वियत् । अनन्तमन्तरिक्षं च विष्णुपादं दिवि स्मरेत् ॥ ६२ ॥ अथ स्थाननामानि । एकं तु प्रथमस्थानं द्वितीयं दशसंज्ञिकम् । तृतींयं शतमित्याहुः चतुर्थं तु सहस्त्रकम् ॥ ६३ ॥ पञ्चमं दशसाहस्त्रं षष्ठं स्यालक्षमेव च । सप्तमं दशलक्षं तु अष्टमं कोटिरुच्यते ॥ ६४ ॥ 7