पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितमा र सं वह : महावीराचार्यप्रणीत: । संज्ञाधिकारः । मङ्गलाचरणम् | अलङ्घ्यं त्रिजगत्सारं यस्यानन्तचतुष्टयम् । नमस्तस्मै जिनेन्द्राय महावीराय तायिने ॥ १ ॥ सङ्ख्याज्ञानप्रदीपेन जैनेन्द्रेण महात्विषा । प्रकाशितं जगत्सर्वं येन तं प्रणमाम्यहम् ॥ २॥ प्रीणितः प्राणित स्यौधो निरीतिनिरवग्रहः । श्रीमतामोघवर्षेण येन स्वेष्टहितैषिणा || ३ || पापरूपाः परा यस्य चित्तवृत्तिहविर्भुजि । भस्मसा'द्भावमीयुस्तेऽवन्ध्यकोपोऽभवत्ततः ॥ ४ ॥ वशीकुर्वन् जगत्सर्वं स्वयं नानुवशः पुरैः । नाभिभूतः प्रभुस्तस्मादपूर्वमकरध्वनः ॥ ५ ॥ यो विक्रमक्रमाकान्त चक्रि चक्रकृतक्रियः | चक्रिकाभञ्जनो नाम्ना चक्रिकाभञ्जनोऽञ्जसा ॥ ६ ॥ यो विद्यानद्यधिष्ठानो मर्यादावजवेदिकः । रत्नगर्भो यथाख्यातचारित्रनलधिर्महान् ॥ ७ ॥ विध्वस्तैकान्तपक्षस्य स्याढादन्यायवादिनः । देवस्य नृपतुङ्गस्य वर्धतां तस्य शासनम् ॥ ८ ॥ 1M and B मह". 4 M and K सद्भा 73 क्री.

  • 3M प्रणीतः

• K, Pand B भवेत्. s M and B श. M सर्गो • B योऽयं. 'P वेदिन :.