पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

132 गणितसारसङ्ग्रहः. स्वाष्टहतात्सेष्टकृतेः कृतिमूलं चेष्टमितरदितरहृतम् | ज्येष्ठं स्वल्पार्धेनं स्वल्पार्धं तत्पदेन चेष्टेन ॥ १६०३ ॥ क्रमशो हत्वा च तयोः तङ्क्रमणे भूभुजौ भवतः । इष्टार्धमितरदोः स्याद्विषमत्रैकोणके क्षेत्रे || १६१ ३ ॥ अत्रोद्देशकः । द्वे रूपे सूक्ष्मफलं विषमात्रभुजस्थ रूपाणि । त्रीणीष्टं भूदोषौ कथ्य सस्वे गणिततच्वज्ञ ॥ १६२३ ॥ सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणितफलवत्समवृत्तक्षेत्रानयनसू- त्रम् - गणितं चतुरभ्यस्तं दशपदभक्तं पढ़े भवेद्व्यासः । सूक्ष्मं समवृत्तस्य क्षेत्रस्य च पूर्ववत्फलं परिधिः ॥ १६३३ ॥ अत्रोद्देशकः । समवृत्तक्षेत्रस्य च सूक्ष्मफलं पञ्च निर्दिष्टम् । विष्कम्भः को वास्य प्रगणय्य ममाशु तं कथय || १६४३ ॥ व्यावहारिकगणितफलं च सूक्ष्मफलं च ज्ञात्वा तव्यावहारिकफलव- त्तत्सूक्ष्मगणितफलवद्द्विसमचतुरश्रक्षेत्रानयनस्य त्रिसमचतुरश्रक्षेत्रानयनस्य च सूत्रम् - धनवर्गान्तरपदयुतिवियुतीष्टं भूमुरवे भुजे स्थूलम् । द्विसमे सपदस्थूलात्पदयुतिवियुतीष्टपदहृतं त्रिसमे ॥ १६५३ ॥ अत्रोद्देशकः । गणितं सूक्ष्मं पञ्च त्रयोदश व्यावहारिकं गणितम् । द्विसमचतुरश्रभूमुखदोषः के षोडशेच्छा च ॥ १६६२ ॥