गणितसारसङ्ग्रहः. आयतचतुरश्रक्षेत्रद्वये रज्जुसङ्ख्यायां सदृक्षायां सत्यां द्वितीयक्षेत्र- फलात् प्रथमक्षेत्रफले द्विगुणिते सति, अथवा क्षेत्रद्वयेऽपि क्षेत्रफले सढशे सति प्रथमक्षेत्रस्य रज्जुसङ्ख्या अपि द्वितीयक्षेत्ररज्जुसङ्ख्या- यां द्विगुणायां सत्यम्, अथवा क्षेत्रद्वये प्रथमक्षेत्ररज्जुसङ्ख्याया अपि द्वितीयक्षेत्रस्य रज्जुसङ्ख्यायां द्विगुणायां सत्यां द्वितीय क्षेत्रफलादपि प्रथ- मक्षेत्रफले द्विगुणे सति, तत्तत्क्षेत्र ह त्रिद्वयस्थानयनसूत्रम्- स्वाल्पहतरज्जुधनहत कृतिरिष्टनैव कोटिस्स्यात् । व्येका दोस्तुल्यफलेऽन्यत्राधिकगणितगुणितेष्टम् || १३१ ३ ॥ व्येकं तदूनकोटिः त्रिगुण। दोः स्वादथान्यस्य । रज्ज्वर्धवर्गराशेरिति पूर्वोक्तेन सूत्रेण । तद्गणितरज्जमितितः समानयेत्तगुज कोटी || १३३ ॥ अत्रोद्देशकः । 128 असमव्यासायामक्षेत्रे द्वे द्वावथेष्टगुणकारः । प्रथमं गणितं द्विगुणं रज्जू तुल्ये किमत्र कोटिभुजे ॥ १३४ ॥ आयतचतुरश्रे द्वे क्षेत्रे द्वयमेव गुणकारः । गणितं सदृशं रज्जुर्द्विगुणा प्रथमात् द्वितीयस्य ॥ १३५ ॥ आयतचतुरश्रे द्वे क्षेत्रे प्रथमस्य घनमिह द्विगुणम् | गुणा द्वितीयरज्जुस्तयोर्भुजां कोटिमपि कथय ॥ १३६ ॥ द्विसमत्रिभुजक्षेत्रयोः परस्पर रज्जधनसमानसङ्ख्ययोरिष्टगुणकगुणि- तरज्जुधनवतोर्वा द्विसमत्रिभुजक्षेत्रद्वयानयनसूत्रम्- रज्जुकृतिघ्नान्योन्यधनाल्पाप्तं षड्विघ्नमल्पमेकोनम् । तच्छेषं द्विगुणाल्पं बीजे तज्जन्ययोर्भुजादयः प्राग्वत् ॥ १३७ ॥ अत्रोद्देशकः । द्विसमत्रिभुजक्षेत्रद्वयं तयोः क्षेत्रयोस्समं गणितम् | रज्जू समे तथोस्स्यात् को बाहुः का भवेद्भूमिः ॥ १३८ ॥
पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६२
दिखावट