पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्र गणितव्यवहारः अत्रोद्देशकः । चत्वालक्षेत्रस्य व्यासस्तु भसङ्ख्यकः परिधिः । षट्पश्चाशदृष्टं गणितं तस्यैव किं भवति ॥ २६ ॥ 118 कूर्मनिभस्योन्नतवृत्तस्यौदाहरणम्- विष्कम्भः, पञ्चदश दृष्टः परिधिश्च पत्रिंशत् । कूर्मनिभे क्षेत्रे किं तस्मिन् व्यवहारजं गणितम् ॥ २७ ॥ अन्तश्चक्रवालवृत्तक्षेत्रस्य बहिश्चक्रवालवृत्तक्षेत्रस्य व व्यवहारफला- नयनसूत्रम्- निर्गमसहितो व्यासस्त्रिगुणो निर्गमगुणो बहिर्गणितम् । रहिताधिगमव्यासादभ्यन्तरचक्रवालवृत्तस्य ॥ २८ ॥ अत्रोद्देशकः । व्यासोऽष्टादश हस्ताः पुनर्बहिर्निर्गतास्त्रेयस्तत्र । व्यासोऽष्टादश हस्तावान्तः पुनरधिगतास्त्रयः किं स्यात् ॥ २९ ॥ समवृत्तक्षेत्रस्य व्यावहारिकफलं च परिधिप्रमाणं च व्यासप्रमाणं च संयोज्य एतत्संयोगसङ्ख्यामेव स्वीकृत्य तत्संयोगप्रमाणराशेः सकाशात् पृथक् परिधिव्यासफलानां सङ्ख्यानयनसूत्रम्- गणिते द्वादशगुणिते मिश्रप्रक्षेपकं चतुःषष्टिः । तस्य च मूलं कृत्वा परिधिः प्रक्षेपकपदोनः ॥ ३० ॥ भत्रोद्देशकः । परिधव्यासफलानां मिश्रं षोडशशतं सहस्रयुतम् । कः परिधिः किं गणितं व्यासः को वा ममाचक्ष्व ॥ ३१ ॥