पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः पुनरपि इष्टाद्युत्तर पदवर्गसङ्कलितानयनसूत्रम्-- द्विगुणैकोनपदोत्तरकृतिहतिरेकोनपदहताङ्गहृता । व्येक पदादित्रयाहतिमुखकृतियुक्ता पदाहता सारम् ॥ २९९ ॥ अत्रोद्देशकः । 104 त्रीण्यादिः पञ्च चयो गच्छः पञ्चास्य कथय कृतिचितिकाम् । पञ्चादित्रीणि चयो गच्छ: सप्तास्य का च कृतिचितिका ॥ ३०० ॥ घनसङ्कलितानयनसूत्रम् - गच्छार्धवर्गराशी रूपाधिकगच्छवर्गसङ्गणितः । 9 घनसङ्कलितं प्रोक्तं गणितेऽस्मिन् गणिततज्ञैः ॥ ३०१ ॥ अत्रोद्देशकः । षण्णामष्टानामपि सप्तानां पञ्चविशतीनां च । षट्पञ्चाशन्मिश्रितशतद्वयस्यापि कथय घनपिण्डम् ॥ ३०२ || इष्टायुत्तरगच्छ घनतङ्कलितानयनसूत्रम् - चित्यादिह तिर्मुख चयशेषना प्रचयनिघ्नवितिवर्गे | आदौ प्रचयादूने वियुता युक्ताधिके तु घनचितिका ॥ ३०३ ॥ अत्रोद्देशकः । आदिस्त्रयश्चयो हौ गच्छ: पञ्चास्य घनचितिका । पञ्चादिस्सप्तचयो गच्छषट का भवेच्च घनचितिका ॥ ३०४ ॥ सङ्कलितसङ्कलितानयनसूत्रम्- - द्विगुणैकोनपदोत्तरकृतिहतिरङ्गाहता यायुता । आदिचयाहतियुक्ता व्येकदघ्नादिगुणितेन ॥ सैकप्रभवेन युता पददलगुणितैव चितिचितिका || ३०५ ।।