पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

102 गणितसारसङ्ग्रहः विपरीतकरणानयनसूत्रम्-- प्रत्युत्पन्ने भागो भागे गुणितोऽधिके पुनश्शोभ्यः | वर्गे मूलं मूले वर्गो विपरीतकरणमिदम् ।। २८६ ॥ अत्रोद्देशकः । सप्तहने को राशिस्त्रिगुणो वर्गीकृतः शरैर्युक्तः । त्रिगुणित पंञ्चांशहतस्त्वर्धितमूलं च पञ्चरूपाणि ॥ २८७ ॥ साधारणशरपरिध्यानयनसूत्रम्- शरपरिधित्रिकमिलनं वर्गितमेतत्पुनस्त्रिभिस्सहितम् ।” द्वादशहतेऽपि लब्धं शरसङ्ख्या स्यात्कलापकाविष्टा ॥ २८८ ॥ अत्रोद्देशकः । परिधिशरा अष्टादश तूणीरस्था: शराः के स्युः । गणितज्ञ यदि विचित्रे कुट्टीकारे श्रमोऽस्ति ते कथय ॥ २८९ ।। इति मिश्रकव्यवहारे, विचित्रकुट्टीकारः समाप्तः || श्रेढीबद्धसङ्कलितम् । इतःपरं मिश्रकगणिते श्रेढीबद्धसङ्गलितं व्याख्यास्यामः । हीनाधिकचयसङ्कलितधनानयनसूत्रम्--- व्येकार्धपदोनाधिकचयघातोनान्वितः पुनः प्रभवः । गच्छाभ्वस्तो हीनाधिकचय समुदायसङ्कलितम् ॥ २९० ॥ अत्रोद्देशकः । चतुरुत्तरदश चादिर्हीनचयस्त्रीणि पञ्च गच्छः किम् । द्वावादिर्वृद्धिचयः षट् पदमष्टौ धनं भवेदत्र ॥ २९१ ॥