पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

100 गणितसारसङ्ग्रहः जयति हि पक्षी ते मे देहि स्वर्णं ह्यविजयोऽसि दद्यां ते । तद्द्वित्र्यंशकमद्येत्यपरं च पुनः स संसृत्य ॥ २७१ ॥ त्रिचतुर्थं प्रतिवाञ्छत्युभयस्माद्द्वादशैव लाभः स्यात् । तत्कुक्कुटिककरस्थं ब्रूहि त्वं गणकमुखतिलक ॥ २७२३॥ राशिलब्धच्छेदमिश्रांबेभागसूत्रम्-- मिश्रादूनितसङ्ख्या छेदः सैकेन तेन शेषस्य | भागं हृत्वा लब्धं लाभोनितशेष एव राशिः स्यात् ॥ २७३३ ।। अत्रोद्देशकः । केनापि किमपि भक्तं सच्छेदो राशिमिश्रितो लाभः । पञ्चाशन्त्रिभिरधिका तच्छेदः किं भवेल्लब्धम् ॥ २७४ ॥ इष्टसङ्ख्यायोज्यत्याज्यवर्गमूलराश्यानयनसूत्रम्- योज्यत्याज्ययुतिः सरूपविषमाग्रता वर्णिता व्यग्रा बन्धहृता च रूपसहिता त्याज्यैक्यशेषाग्रयोः । शेषैक्यार्धयुतोनिता फलमिदं राशिर्भवेद्वाञ्छयो- स्त्याज्यात्याज्यमहच्वयोरथ कृतेर्मूलं ददात्येव सः ॥ २७५३॥ अत्रोद्देशकः । राशिः कश्चिद्दशभिः संयुक्तः सप्तदशभिरपि हीनः । मूलं ददाति शुद्धं तं राशिं स्यान्ममाशु वद गणक ।। २७६३ ॥ राशिस्सप्ताभरूनो यः सोऽष्टादशभिरन्वितः कश्चित् । मूलं यच्छति शुद्धं विगणय्याचक्ष्व तं गणक ॥ २७७३॥