पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

98 गणितसारसङ्ग्रहः द्विगुणोऽभवद्द्वितीयः प्रथमं चत्वारि षट् तृतीयमगात् । त्रिगुणं तृतीयपुरुषः प्रथमं पञ्च द्वितीयं च ॥ २५४ ॥ षट् प्रार्थ्याभूत्पञ्चकगुणः स्वहस्तस्थितानि कानि स्युः । कथयाशु चित्रकुट्टीमिश्रं जानासि यदि गणक ॥ २५५३ ॥ पुरुषास्त्रयोऽति ुशलाश्चान्योन्यं याचितं धनं प्रथमः । स द्वादश द्वितीयं त्रयोदश प्रार्थ्य तत्रिगुणः ॥२५६॥ प्रथमं दश त्रयोदश तृतीयमभ्यर्थ्य च द्वितीयोऽभूत् । पञ्चगुणितो द्वितीयं द्वादश दश याचयित्वाद्यम् || २५७३ ॥ सप्तगुणितस्तृतीयोऽभवन्नरो वाञ्छितानि लब्धानि । कथय सखे विगणय्य च तेषां हस्तस्थितानि कानि स्युः॥ २९८३ ॥ अन्त्यस्योपान्त्यतुल्यधनं दच्वा समधनानयनसूत्रम् वाञ्छाभक्तं रूपं स उपान्त्यगुणः सरूपसंयुक्तः । शेषाणां गुणकारः सैकोऽन्त्यः करणमेतत्स्यात् || २९९ ॥ अत्रोद्देशकः । वैश्यात्मजास्त्र यस्ते मार्गगता ज्येष्ठमध्यमकनिष्ठाः । स्वधने ज्येष्ठो मध्यमधनमात्रं मध्यमाय ददौ ॥ २६०३ ॥ स तु मध्यमो जघन्यजधनमात्रं यच्छति स्मास्य | समधनिकाः स्युस्तेषां हस्तगतं ब्रूहि गणक संञ्चिन्त्य ॥ २६१३ ।। वैश्यात्मजाश्च पञ्च ज्येष्ठादनुजः स्वकीयधनमात्रम् । लेभे सर्वेऽप्येवं समवित्ताः किं तु हस्तगतम् ॥ २६२३ ॥