पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

90 गणितसारसङ्ग्रहः अत्रोद्देशकः । वर्णाश्शरर्तुनगवसुमृडविश्वे नव च पक्कवर्ण हि । कनकानां षष्टिश्चेत पृथक् पृथक कनकमा किं स्यात् ।। १८६ ।। द्वयनष्टवर्णानयनसूत्रम्-- स्वर्णाभ्यां हृतरूपे सुवर्णवर्णाहते द्विष्ठे । C स्वस्वर्णहृतैकेन'च हीनयुते व्यस्ततो हि वर्णफलम् ॥ १८७॥ अत्रोद्देशकः । षोडशदशकनकाभ्यां वर्णं न ज्ञायते पक्कम् । वर्ण चैकादश चेद्वर्णो तत्कनकयोर्भवेतां कौ ॥ १८८ ॥ पुनरपि द्वयनष्टवर्णानयनसूत्रम् - एकस्य क्षयमिष्टं प्रकल्प्य शेषं प्रसाधयेत् प्राग्वत् । बहुकनकानामिष्टं व्येकपदानां ततः प्राग्वत् ।। १८९ ।। • अत्रोद्देशकः । द्वादशचतुर्दशानां स्वर्णाना समरसीकृते जातम् । वर्णानां दशकं स्यात् तद्वर्णो ब्रूहि सञ्चिन्त्य । १९० ।। अपरार्धस्योदाहरणम् । सप्तनवाशखिदशानां कनकानां संयुते पक्वम् । द्वादशवर्णं जातं किं ब्रूहि पृथक् पृथग्वर्णम् || १९१ ॥ परीक्षणशलाकानयनसूत्रम् - परमक्षयाप्तवर्णाः सर्वशलाकाः पृथक् पृथग्योज्याः । स्वर्णफलं तच्छोघ्यं शलाकपिण्डात प्रपूराणका || १९२ ॥ Badds here यते ।