पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 गणितसारसङ्ग्रहः बहुमूलकालवृद्धिमिश्रावभागानयनसूत्रम्- विभजेत्स्वकालताडितमूलसमासेन फलसमासहतम् । कालाभ्यस्तं मूलं ष्टथक् ष्टथक् चादिशेहृद्धिम् ॥ ३७ ॥ 'अत्रोद्देशकः । चत्वारिंशत्रिंशविंशतिपथाशदत्र मूलानि । मासाः पंञ्चचतुस्त्रिकषट् फलपिण्डअनुस्त्रिंशत् ॥ ३८ ॥ बहुमूलमिश्रविभागानयन सूत्रम्- स्वफलैस्स्वकालभक्तस्ता मूलमिश्रधनराशिम् । 'छिन्द्यादंशं गुणयंत् समागमो भवति मूलानाम् ॥ ३९ ॥ अत्रोद्देशकः । दशषट्त्रिपञ्चदशका वृद्धय इषवश्चतुस्त्रिषण्मासाः । मूलसमासो दृष्टश्चत्वारिंशच्छतेन संमिश्रा ॥ ४० ॥ पञ्चार्धषड्दशापि च सार्धा : षोडश फलानि च त्रिंशत् । मासास्तु पञ्च षट् खलु सप्ताष्ट दशाप्यशीतिरथ पिण्डः ॥ ४ 6 बहुकालामिश्रावभागानयनसूत्रम्- स्वफलैः स्वमूलभक्तैस्तद्युत्या कालमिश्रधनराशिम् 'छिन्द्यादंशं गुणयेत् समागमो भवति कालानाम् ॥ ४२ ॥ अत्रोद्देशकः । चत्वारिंशत्रिंशद्वशतिपञ्चाशदत्र मूलानि । दशषट्त्रिपञ्चदश फलमष्टादश कालमिश्रधनराशिः ॥ ४३ ॥ प्रमाणराशौ फलेन तुल्यमिच्छाराशिमूलं च तदिच्छाराशौ वृद्धि 1 The MSS read छिन्द्यादशान् which does not seem to be correct.