पृष्ठम्:Ganaratnamahodadhi.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओ३म्

अथ श्रीवर्धमानविरचितः स्वीयवृत्तिसहितो गणरत्नमहोदधिः ॥


सुखेनैव ग्रहीष्यन्ति गणरत्नानि यां श्रिताः ।

वृत्तिः सारभ्यते स्वीयगणरत्नमहोदधेः ॥

शास्त्रारम्भे समीहितसिद्धयेऽभिमतदेवतायां (१) ग्रन्थकृन्नमस्कारमाह ।


वाग्देवतायाः क्रमरेणवस्ते जयन्ति येषां मिषमात्रतोऽपि ।

सर्वार्थदर्शी (२) मुकुरेण तुल्यः प्रकर्षमेति प्रतिभाविलासः ॥ १ ॥


येषां वाग्देवत्तायाश्चरणरेणूनां संस्पर्शमात्रेणापि निखिलपदार्थसार्थप्रति- बिम्बहेतुः प्रतिभाविलासः सातिशय सम्पद्यते, ते जयन्तीति सम्बन्धः । वाचामधिष्ठात्री (३) देवता वाग्देवतेति साभिप्रायं तस्यां नाम । जयन्तीति सर्वोत्कर्षेण वर्त्तन्ते सर्वोत्कृष्टत्वेन च नमस्कार आक्षिप्यत इति तान्प्रति प्र- णतोऽस्मीति लभ्यते । प्रतिभेति । प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता ॥ इदानीं व्याकरणनिष्णातबुद्धीनां पूर्वाचार्य्याणां स्तुतिमाह ॥


शालातुरीयशकटाङ्गजचन्द्रगोमि

दिग्वस्त्रभर्त्तृहरिवामनभोजमुरव्याः ।

मेधाविनः प्रवरदीपककर्त्तृयुक्ताः

प्राज्ञैर्निषेवितपदद्वितया जयन्ति ।। २।। '


शलातुरो नाम ग्रामः । सोऽभिजनोस्याऽस्तीति (४) शालातुरीयस्तत्रभवात्‌ पाणिनिः । शकटाङ्गजः शाकटायनः । पूज्यश्चन्द्रश्चन्द्रगोमी । गोमिन् पूज्य इति


(१) देवताया इतिपाठान्तरम् ।। (२) शब्दार्थदर्शीतिपा० (३) विद्याबोधो- ऽवसेयः ० (४) तूदीशलातुरवर्मती० ४।३।९४ इति सूत्रेण छण्प्रत्ययः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/७&oldid=156856" इत्यस्माद् प्रतिप्राप्तम्