पृष्ठम्:Dvisandhanam kavya.pdf/२३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२२४ काव्यमाला। निजतो हि धराराधी सदा नाम रवी रुचा । वेधसा जनितो भूयो योगे वेगनयेन सन् ॥ १३८ । सन्नयेन गवे गेयो यो भूतो निजसाधवे। चारुवीरमना दासधीराराधहितोऽजनि ॥ १३९ ॥ (प्रतिलोमानुलोमैकद्वैतम्) निजेति ॥ वैधता ब्रह्मणा सदा धराराधी धरां राध्यति भूमिवर्धको धरां रानोति भूमिसंसिद्धिकारको रुचा कान्त्या रविः सूर्यः, सन् सज्जनो विष्णुर्भूयः पुनर्निजत आत्मीयेन वेगनयेन योगे समाधौ हि स्फुटं जनितोऽजनि नाम अहो ॥ सन्नयेनेति ॥ यः चारुवीरमनाश्चारुषु वीरेषु मनो यस्य तादृग् दासधीराराधहितः दासानां भृत्यानां धीरं यथा स्यात्तथा आराध आराधनं सेवाकर्म हितो यस्य ताहम् अजनि संजातः । स विष्णुनिजसाधवे निजाः साघवो जाता यस्यास्तस्यै, गवे भारत्यै सन्नयेन समीचीननीत्या गेयः स्तुत्यो भूतः ॥ खपत्यं विधिनिग्राहं स्वपत्यन्तेऽकरोतिषाम् । आजिनीवाधि कृत्वा तमाजिजीवारवाहतम् ॥ १४० ॥ स्वपेति ॥ स नारायणः स्वपत्यन्ते स्वस्वामिसंनिधौ आत्मजनकसमक्षमेव द्विषां शत्रूणां विधिनिप्राहं विधानबन्धकं स्वपत्यं शोभनापत्यमाज्ञासंपादक पुत्रमकरोदुत्पाद- यामास । तदपत्यमाजिजीवारवाइतमाजी रणे जीवाया रवे अहतमखिन्नं किंतु सोत्सव तं विष्णुमधि स्वामिनं कृत्वा आजिजीव प्राणान्धारयति स्म तद्वियोगे प्राणोत्क्रमण- सूचिका खिन्नता तस्याजायतेति भावः ॥ अमा रणं महामात्रैर्महाब्रौरमारणम् । अध्यायन्कविभिः काव्यमध्यायं कर्म चाकरोत् ॥ १४१॥ अमेति ॥ स नारायणो महामात्रैः प्रधानमश्रिभिरमा सहाध्यायन् परामृशन् रणं सङ्ग्रामाख्यं महामात्रैर्महावयस्कैर्महाब्रह्मैर्महाद्विजैः । 'कुमहद्भपाम्-' इति ब्रह्मणष्टच् । सह परामशन अमारणं हिंसाभावरूपं मायै लक्ष्म्यर्थे रणाभावरूपं वा महामात्रैहदव्य- साध्यैः कविमिः सह परामृशन् काव्यमध्यायं काव्यस्य मध्यमयते तादृशम् काव्यनिर्माण- रूपं कर्म अकरोत् । विमृश्यैव सकलं कर्म कृतवान् नस्वविमृश्य । तथा चोक्तम्-'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वय- मेव संपदः । इति ॥ अर्थानपेक्षानद्राक्षीकाले करणमात्रिकान् । स पौरानङ्गहारांश्च नमत्क्रमकटीकरान् ॥ १४२ ॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२३४&oldid=234756" इत्यस्माद् प्रतिप्राप्तम्