पृष्ठम्:Dvisandhanam kavya.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । पश्चातापं कुर्वन्ते । रिपुः साम्राज्यमूले हस्त्यश्वरथपदातिलक्षणेऽतीते लोचनगोचरा. तिक्रान्तेऽपि सति, तादयस्थ्यं तदवस्था ययौ ॥ ___ कृपया नापि मोहेन हस्तप्राप्तं हि दुस्त्यनम् । किंतु शत्रूत्तरप्रौढिं शुश्रूषुः स व्यलम्बत ॥ ८२॥ कृपयेति ॥ हस्तप्राप्त करगतं वस्तु, कृपयानुकम्पया, मोहेनापि न दुस्त्यजम् । किंतु स शत्रूत्तरप्रौडिं रिपोरुत्तरकालीनसामर्थे शुनपुराकर्णयितुमिच्छुः सन् व्यलम्बत कालयापनां चकार ॥ अत्यन्तकोऽपकारेण निरास्थन्न तदानवम् । अत्यन्तकोपकारेण निरास्थं नतदानवम् ॥ ८३॥ __ (अर्धसमः मुरजसमुद्कबन्धः) अत्यन्तेति ॥ अत्यन्तको विष्णुरत्यन्तकोपकारेणातिशयितक्रोधकारिणा अपकारेण निरास्थ चश्चलं नतदान नता दानवा येन तादृशं तद् आनवम् अनो रथस्य इदमानवं चक्र न निरास्थत् निक्षिप्तवान् ॥ व्यापिपध्यापिपद्मोऽसौ रूक्षोरू क्षोभपीवरौ । तौ भुजौ भूभुजौ पूर्व वाचोवाचोद्धरो विभुः ॥ ८४ ॥ (ओष्ठयः) व्यापीति ॥ व्यापिपमः व्यापी प्रतिषेधकः पयो रामो यस्य व्यापिनी कामव्यापारचतुरा पमा लक्ष्मीर्यस्य उदुर उत्कटः असौ, विभुर्लक्ष्मणो नारायणश्च । पूर्व वाघा वाण्योवाच, पश्चात् क्षोमपीवरौ क्षोभपुष्टौ रूक्षोरू कर्कशोरू भूभुजौ भुवं भुमाते इत्येवंशीली, ती भुजौ व्यापिपत् व्यापारितवान् । भोगः स एव सा संपन्नम हानिश्च यस्यते । सीतार्पणेऽपवादो मे न महानिश्चयस्य ते ॥ ८५ ॥ (समपादयमकम्) मोग इति ॥ हे प्रतिविष्णो, यतो महानिश्चयस्य गृहीतप्रौढप्रतिशस्य ते तव स एव भोगः 'सैन्यनाम्यनिधिरनभोजनान्यासने शयनमाजनोऽपरम् । वाहनेन सममित्यभी- प्सितं भोगमाप स दशाङ्गमीश्वरः ॥' इत्युक्तभेददशामलक्षणः, सैव संपलक्ष्मीः, अस्ति, अतो नम नम्रो भव, यस्यते यनं कुर्वते मे मां सीतार्पणे जानकीदाने भूमिदानेऽप- वादो जनदूषणं हानिश्च न स्यात् ॥ प्रत्याहतं सुराजानन्नामकीर्तिरिति म सः । प्रत्याह तं सुरा जानकथाक्षेपेण शात्रवः ॥ ८६ ॥ (विषमपादयमकम्) Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२३&oldid=234725" इत्यस्माद् प्रतिप्राप्तम्