पृष्ठम्:Dvisandhanam kavya.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३ १७ सर्गः द्विसंधानम् । चित्तं चित्तेनाङ्गमङ्गेन वक्रं वक्रेणांसेनांसमप्यूरुणोरुम् । एकं चक्रुः सर्वमात्मोपभोगे कान्ताः पतौ हन्त लज्जां ववञ्चः ॥ ७० ॥ चित्तमिति ॥ कान्ता आत्मोपभोगे चित्तेन चित्तम्, अनागम् , वक्रण वक्रम्, अं- सेन अंसम्, उरुणा उरुम् अपि सर्वम् एकं चक्रुः । हन्त अहो पडौ लज्जा ववस्त्य- क्तवत्यः ॥ शालिनी॥ सहस्थितं विस्मृतमङ्गमंशुकं गतं पुनः किं सहजा सखीव सा । कदापि दृष्टेव न संस्तुतेव च त्रपा कुतस्त्यं कुपितं नतभ्रवः ॥ ७१॥ सहेति ॥ नतभ्रवः कामिन्याः सहस्थितमेकत्रावस्थितम् अहं किं न विस्मृतम् । अंशुकं वस्त्रं किं न गतम् । सा सहजा नैसर्गिकी सखीव किन जाता। कदापि दृष्टे- व किं न जाता। च पुनः संस्तुतेव कि न जाता। त्रपाच किं न जाता । कुतस्त्यं कु- पितं किं न जातम् ॥ बंशस्थवृत्तम् ॥ विलोकभावेषु सहस्रनेत्रता चतुर्भुजत्वं परिरम्मणेऽभवत् । समागमे सर्वगतत्वमिच्छवः सुदुर्लभेच्छाकृपणा हि कामिनः ॥७९॥ विलोकेति ॥ कामिनः सहस्रनेत्रतामिन्द्रताम्, चतुर्भुजत्वं विष्णुत्वम्, सर्वगतत्वमात्म- त्वम् इच्छवः सुदुर्लभेच्छाकृपणाः दुर्लभेच्छरहिता आसन् । हि यतः तेषां विलोकभा- वेध कटाक्षादिषु सहस्रनेत्रता अनन्तचक्षुर्व्यापारः, परिरम्भणे आलिङ्गने चतुर्भुजलं (पीपेसहस्तसमहेन) समागमे मेलने सर्वगतत्वं सर्वत्र वनोपवनादिष गतं गमनं क्रीदार्थ येषां तत्त्वम् , अभवत् ॥ बद्धासवे प्रेम वधूः प्रियेऽपि त्रतुं न धातुद्वयबद्धमैच्छत् । अगूढभावापि ततो विकल्पात्पण्याङ्गनेव द्विमनीबभूव ॥ ७३ ॥ बढ़ेति ॥ वधूरासवे मद्ये, प्रिये अपि धातुद्वयबद्धम् 'तृप् प्रीणने, 'त्रपूष् लज्जायाम् , इति धातुयेन बद्धम् आसवे तर्पणनिर्मितं प्रिये लज्जानिर्मितं प्रेम बद्धा नियम्य प्राप्तं प्रीणयितुं लज्जितुं वा न ऐच्छत् (परस्परप्रतिषन्यात)। ततस्तस्मात्कारणात् अगूढभावा प्रकटाशयापि सा विकल्पाद्धातुद्वयार्थनिमित्तात्, पण्याङ्गना वेश्या द्विमनीषभूव चित्त- द्वैतंगताभूत् ॥ उपजातिः ॥ ब्रीडा वासः स्वान्तमङ्गं समस्तं कामार्तानां प्राप शैथिल्यमेका । स्वमेऽप्यासीन्न श्लथा बाहुपीडा युक्तं द्राधीयःसु मूर्खत्वमाहुः ॥७४॥ बीडेति ॥ कामार्तानां कामेन ऋतानां कामिनां ब्रीडा लज्जा वासो वर्ष स्वान्तं चित्तं समस्तं निखिलम् अहं शैथिल्यं शिथिलता प्राप । एका बाहुपीडा स्वप्नेऽपि श्लया शिथिला न आसीत् । द्वापीयःसु दीर्घतरेषु मूर्खत्वं युक्तम् आहुः चारुचन्द्रचन्द्रिकाच- . कोरा विद्वज्जनाः ॥ शालिनी ॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०३&oldid=234715" इत्यस्माद् प्रतिप्राप्तम्