शयामा सदङ्गसुभगा करपङ्कजाग्रदुर्लालना विहरमाणमनोज्ञकाम्या ।
त्रैलोक्यवर्मनृपतेर्मनसि प्रमोदमाविष्करोति करवाललता, न कान्ता ॥३॥
( विचिन्त्य सोल्लासम् )
कवेः कवित्वं पटुता नटानां भग्र्गार्जुनीयं चरितं पवित्रम् ।
तदैहिकामुष्मिकसौख्यहेतुदैत्तो नियोगोऽद्य नरेश्वरेण ॥ ४ ॥
मार्प ! का पुनरभिनयवेला निस्रूपिताऽस्ति ? ।
स्थापकः-भाव l नन्वयमेव सूव॒भाव॒ाभिरामः शयामारम्भसमयः ।
अत्र हि-
चन्द्रोऽर्जुनः समधिकृत्य पुरन्दराशामासादयटुदयहेतुमसौ गिरीशम् |
उन्मुद्रयन्नचिरमेव जगत्प्रमोदमाविष्प्करिष्प्यति विपक्षतमःप्रणाशम् ॥ ५ ॥
(नेपर्यये )
साधु शैत्छ्ट्रपशिरोमणे ! साधु ॥ गृहीोतेयं सदुपश्रुतिभैवतु फलशालिनी ।
सूत्र०-( समाकर्ण्य सहर्पय् ) मार्प! हिमवति तपस्यतोऽर्जुनस्य द्धैपायनोपनीतोऽयमनुचरःसिद्धादेशोव्याहरति॥तदेह्यावामनन्तरकरणीयं सम्पादयाव ॥
( इति निप्क्रान्तैौ )
प्रस्तचन्न ।
( ततः प्रविशत्यर्जुनः सिद्धादेशश्च )
सिद्ध्द्रादेशः-आयुप्मन् ! किं पुनः समग्रसमीहितसिद्धिसामग्रीसम्भवेऽपि विमना इव विभाव्पसै ? ।
अर्जुनः-( स॒कोधाहङ्कारम् ) क मे वैमनस्योपशान्तिः ! ।
अपार्थः पार्थोऽहं धनुरधिमुणं निर्मुणमिदं
विसारा एतेऽपि प्रसरणपराः सम्प्रति शराः ।
न यावन्नो राजा समरभुवि कौरव्यबलव-
त्कबन्धानां नृत्यैरनुभवति नेत्रोत्सवसुखम् ॥ ६ ॥
सिद्धा -- आयुष्मन् । किमेवं खिधते भवान् ? । इन्द्रजालपुरुपा इव द्दश्यमाना अप्यविघमाना एव तव शत्रवः । इदानीमपि घर्मात्मज एव राजा । तथाहि ----