पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
वत्सराजप्रणीतरूपकसङ्ग्रहे

 सर्व०-(सकोधम्) एप निर्द्दहामि हिमदीधितिं हिमाचलं च । (इति संरम्र्भ नाटयति )

 विश०-(सप्रश्रयम् ) अपि दानवेश्वर ! कृतं कृतं संरम्भेण ।

क्षयी हिमांशुर्हिमपर्वतोऽपि
 विविष्टपाधोश्वरलूनपक्षः ।
युद्धाय सन्नह्यसि यत्तयोस्त्वं
 मन्दाक्षभारः कथमेप सल्यः ? ॥ १७ ॥

 सर्व०-तदिहस्थ एव दहनास्त्रं प्रयुञ्जे । ( इति तया करोति )

( नेपथ्ये )

प्रशमितहिमखेदं पावकास्त्रेण येन
 क्षणमिव पुरमासोत्सुस्थितं चान्द्रतापम् ।
अहह ! निविडदादृद्भद्रावितद्धारसीधं
 प्रबलरजतपङ्गैस्तद्दहत्याशु दैत्यान् ॥ १८ ॥

 सर्व०---( क्ष्रुत्वा सक्रोधम् ) उपसंहराम्येप आग्नेयास्त्रम्। (इति तया करोति)

 विश०-अहह ! सुमहानयं सङ्कटः । आग्नेयास्त्रप्रयोगे वियोगेन शिशिाराभिभवः । आग्रेनेयास्त्रं च राजतं विलालयति । तद्गच्छ स्फुटाक्षर ! ब्रूहि चन्द्रतापं राजतपुरमनर्थनिमित्तं परिहृत्य बहिः स्थीयतां वहिर्युध्यताम् ।

 स्फुटा०-यदाऽऽदिशति आर्यः । (इति निष्क्रमति )

 विश०--(वामाक्षिस्पन्दनं सूचयित्वा) अहह ! किमेतदाचष्टे स्पन्दमानं मे वामं वलिोचनम्म । अस्तु सर्वाभ्युद्यभाजनं सर्वतापः । अस्तु चाप्रतिहततेजा दैत्यगुरुः ।

( नेपय्ये )

तावद्वस्त्रिपुरासुराः ! प्रसूमरं त्रैलोक्यजिद्वैभवं
 स्यूतः पङ्कजसम्भवेन निविडस्तावद्वरः कङ्कटः।
तत्कन्दर्पमहेन्धनं त्रिभुवनप्लोपप्रगल्भं क्षये
 यावन्नोद्धटते मनागपि रुपा त्र्यक्षस्य भालेक्षणम् ॥ १९ ॥

 विश०-( नमोऽवलोक्य सप्तम्भ्रमम् ) कथमारो कुमारो नन्दिसनाथविपुलपरीवारः समापतति ! । तथाहि---