पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ बृहत्स्तोत्ररत्नाकरे कर्म च परेऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचिद्गणपतिमुतार्क च सुधियो मतीनां वै भे- दात्त्वमसि तदशेषं मम मतिः ॥ २॥ शिवः पादांभस्ते शि- रसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुजतेजोम- यतनुः । दिनेशं चैवामुं तव नयनमूचुस्तु निगमास्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥ ३ ॥ क्वचिन्मस्त्यः कूर्मः क्वचिदपि वराहो नरहरिः कचित्खर्वो रामो दशरथ- सुतो नंदतनयः । क्वचिद्धः कल्किविहरसि कुभारापहत- ये स्वतंत्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४ ॥ हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना द्रुतं मात्स्यं धृत्वा वपुरजरशंखासुरमथो । क्षयं नीत्वा मृत्योर्निगम- गणमुद्धृत्य जलधेरशेषं संगुप्तं जगदपि च वेदैकशरणम् ॥५॥ निमजंतं वाध नगवरमुपालोक्य सहसा हितार्थं देवानां कमठवपुषाऽविश्य गहनम् । पयोराशिं पृष्ठे तम- जित सलीलं धृतवतो जगद्धातुस्तेऽभूत्किमु सुलभभारा- य गिरिकः ॥ ६ ॥ हिरण्याक्षः क्षोणीमविशदसुरो नक्र- निलयं समादायामयैः कमलजमुखैरंबरगतैः । स्तुतेना- नंतात्मन्नचिरमवभाति स्म विता त्वया दंष्ट्राग्रेऽसावव- निरखिला कंदुक इव ॥७॥ हरिः क्वास्तीत्युक्ते दनुजपति- नाssपूर्य निखिलं जगन्नादैः स्तंभान्नरहरिशरीरेण करजैः । समुत्पत्याशूरावसुरवरमादारितवतस्तवाख्याता भूमन्कि-