पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे दकं पिबेन्नित्यं चक्रांकितशिलोद्भवम् । प्रक्षाल्य इति त तोयं ब्रह्महत्यां व्यपोहति ॥८॥ अग्निष्टोमसहस्राणि वाज- पेयशतानि च । सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्ष- णात् ॥ ९ ॥ नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषतः पादजलेन विष्णोः । योऽश्वाति नित्यं पुरतो मुरारे: प्रा- मोति यज्ञायुतकोटिपुण्यम् ॥ १० ॥ खंडिता स्फुटिता भिन्ना अग्निदग्धा तथैव च । शालिग्रामशिला यत्र तत्र दोषो न विद्यते ॥ ११ ॥ न मंत्रः पूजनं नैव न तीर्थ न च भावना । न स्तुतिर्नोपचारश्च शालिग्रामशिलार्चने ॥ १२ ॥ ब्रह्महत्यादिकं पापं मनोवाक्कायसंभवम् । शीघ्रं नश्यति तत्सर्व शालिग्रामशिलार्चनात् ॥१३॥ नानावर्ण- मयं चैव नानाभोगेन वेष्टितम् । तथा वरप्रसादेन ल क्ष्मीकांतं वदाम्यहम् ॥ १४ ॥ नारायणोद्भवो देवश्चक- मध्ये च कर्मणा । तथा वरप्रसादेन लक्ष्मीकांतं वदाम्य- हम् ॥१५॥ कृष्णे शिलातले यत्र सूक्ष्मं चक्रं च दृश्यते । सौभाग्यं संतति धत्ते सर्वसौख्यं ददाति च ॥ १६ ॥ वासुदेवस्य चिह्नानि दृष्ट्वा पापैः प्रमुच्यते । श्रीधरः सुकरे वामे हरिद्वर्णस्तु दृश्यते ॥ १७॥ वाराहरूपिणं देवं कूर्मा- गैरपि चिह्नितम् । गोपदं तत्र दृश्येत वाराहं वामनं तथा ॥ १८ ॥ पीतवर्णस्तु देवानां रक्तवर्ण भयावहम् । नार- सिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम् ॥ १९ ॥ शंखचक्र-