पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे लोके ॥२०॥ विदुर उवाच । वासुदेवस्य ये भक्ताः शांता- स्तद्गतमानसाः । तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि ॥ २१ ॥ भीष्म उवाच । विपरीतेषु कालेषु परि- क्षीणेपु बंधुषु । त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ २२ ॥ द्रोणाचार्य उवाच । ये ये हताश्चक्रधरेण राजंस्खै- लोक्यनाथेन जनार्दनेन । ते ते गता विष्णुपुरीं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः ॥ २३ ॥ कृपाचार्य उवाच । मज्जन्मनः फलमिदं मधुकैटभारे मध्प्रार्थनीयमदनुग्रह एष एव । त्वद्धृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्य नृत्य इति मां स्मर लोकनाथ ॥ २४ ॥ अश्वत्थामोवाच । गोविंद केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वनाथ | श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणा- च्युत नृसिंह नमो नमस्ते ॥ २५ ॥ कर्ण उवाच । नान्यं वदामि न शृणोमि न चिंतयामि नान्यं स्मरामि न भ जामि न चाश्रयामि | भक्त्या त्वदीयचरणांबुजमंतरेण श्री श्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ २६ ॥ धृतराष्ट्र उवाच । नमो नमः कारणवामनाय नारायणायामितवि- क्रमाय । श्रीशार्ङ्गचक्राजगदाधराय नमोऽस्तु तस्मै पुरु- षोत्तमाय ॥ २७ ॥ गांधार्युवाच | त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ २८ ॥ द्रौपद्युवाच ।