पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ बृहत्स्तोत्ररताकरे चुस्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥ प्रातर्नमामि तमसः परमर्कवर्ण पूर्ण सनातनपदं पुरुषोत्तमाख्यम् । यस्मिन्निदं जगदशेषमशेषमूर्ती रजवां भुजंगम इव प्र तिभासितं वै ॥ ३ ॥ श्लोकत्रयमिदं पुण्यं लोकत्रयवि- भूषणम् | प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥४॥ इति श्रीभगवत्पादाचार्यविरचितं प्रातःस्मरणस्तोत्रं सं पूर्णम् ॥ १७०. अश्वत्थस्तोत्रम् । श्रीगणेशाय नमः ॥ श्रीनारद उवाच | अनायासेन लो- कोऽयं सर्वान्कामानवाप्नुयात् । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ १ ॥ ब्रह्मोवाच । शृणु देवमुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् । यत्प्रदक्षिणतो लोकः सर्वान्का- मान्समनुते ॥ २ ॥ अश्वत्था दक्षिणे रुद्रः पश्चिम विष्णु- रास्थितः । ब्रह्मा चोत्तरदेशस्थः पूर्वे विंदादिदेवताः ॥ ३ ॥ स्कंधोपस्कंधपत्रेषु गोविप्रमुनयस्तथा । मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुंगव ॥ ४ ॥ पूर्वादिदिक्षु संयाता नदीनदसरोब्धयः | तस्मात्सर्वप्रयलेन ह्यश्वत्थं संनये- हुधः ॥ ५ ॥ त्वं क्षीर्यफलकश्चैव शीतलश्च वनस्पते । त्वामाराध्य नरो विद्यादैहिकामुष्मिकं फलम् ॥ ६ ॥ चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे । बोधिatara देवाय ह्यश्वत्थाय नमो नमः ॥ ७ ॥ अश्वत्थ यस्मात्त्वयि