पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि | दिवत् ॥ ४५ ॥ सम्यग्विज्ञानवान्योगी स्वात्मन्येवा- गलं स्थितम् । एवं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ०.६ ॥ आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न विद्यते । मृदो यद्वद्धटादीनि स्वात्मानं सर्वमीक्षते ॥ ४७ ॥ जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् । सच्चिदानंदरूपत्वाद्भवे- अमरकीटवत् ॥ ४८ | तीर्खा मोहार्णवं हत्वा रागद्वे- पादिराक्षसान् । योगी शांतिसमायुक्तो ह्यात्मारामो वि राजते ॥ ४९ ॥ उपाधिस्थोऽपि तद्धमैर्न लिप्तो व्योमव- न्मुनिः । सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत् ॥ ५० ॥ बाह्यां नित्यसुखासक्तिं हित्वाऽऽत्मसुखनिर्वृतः । घटस्थ- दीपवत् स्वच्छः स्वांतरेव प्रकाशते ॥ ५१ ॥ उपाधिविल- याद्विष्णौ निर्विशेषं विशेन्मुनिः | जले जलं वियज्योनि तेजस्तेजसि वा यथा ॥ ५२ ॥ यल्लाभान्नापरोलाभो यत्सुखानापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधा- रयेत् ॥ ५३ ॥ यद्दृष्ट्वा न परं दृश्यं यद्भूत्वा न पुनर्भवः । यज्ज्ञात्वा न परं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ ५४ ॥ तिर्यगू- र्ध्वमधः पूर्ण सच्चिदानंदमव्ययम् | अनंवर्न मेकं यत्त- ब्रह्मेत्यवधारयेत् ॥ ५५ ॥ अतद्व्यावृत्तिरूपेण वेदांतैलक्ष्य- तेऽव्ययम् | अखंडानंदमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५६ ॥ अखंडानंदरूपस्य तस्यानंदलवाश्रिताः । ब्रह्माद्यास्ता- रतम्येन भवत्यानंदिनोऽखिलाः ॥ ५७ ॥ तद्युक्तमखिलं