पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | १३६. श्रीगोपालाष्टकम् । श्रीगणेशाय नमः ॥ यस्माद्विश्वं जातमिदं चित्रमतर्क्स यस्मिन्नानंदात्मनि नित्यं रमते वै । यत्रांते संयाति लयं चैतदशेषं तं गोपालं संततकालं प्रति वंदे ॥ १ ॥ यस्य ज्ञानाजन्मजरारोगकदंब ज्ञाते यस्मिन्नश्यति तत्सर्वमि हाशु । गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं संततकालं प्रति वंदे ॥ २ ॥ तिष्ठनंतर्यो यमयत्येतदजस्रं यं कश्चिनो वेद जनोप्यात्मनि संतम् । सर्व यस्येदं च वशे तिष्ठति विश्वं तं गोपालं संततकालं प्रति वंदे ॥ ३ ॥ धर्मोsधर्मेणेह तिरस्कारमुपैति काले यस्मिन्मत्स्य मुखै- श्वारुचरित्रैः । नानारूपैः पाति तदा योऽवनिबिंबं तं गोपालं संततकालं प्रति वंदे ॥ ४ ॥ प्राणायामैर्ध्वस्तस- मस्तेंद्रियदोषा रुध्वा चित्तं यं हृदि पश्यंति समाधौ । ज्योतीरूपं योगिजनामोदनिमग्नास्तं गोपालं संततकालं प्रति वंदे ॥ ५ ॥ भानुश्चंद्रश्चोडुगणश्चैव हुताशो यस्मिन्नै - वाभाति तडिच्चापि कदापि । यद्भासा चाभाति समस्तं जगदेतत् तं गोपालं संततकालं प्रति वंदे ॥ ६ ॥ सत्य- ज्ञानं मोदमवोचुनिंगमा यं यो ब्रह्मादित्यगिरीशार्चि- तपादः । शेतेऽनंतोऽनंततनावंबुनिधौ यस्तं गोपालं संत- तकालं प्रति वंदे ॥ ७ ॥ शैवाः प्राहुर्य शिवमन्ये गण- नाथं शक्तिं चैकेsकं च तथान्ये मतिभेदात् । नानाकारै- २९९